पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२४५

पुटमेतत् सुपुष्टितम्
213
पञ्चमप्रश्नः

वेयुः, तेषां धातुपोषकत्वस्य वक्तुं सुकरत्वात् इत्याशयं मनसि निधाय यद्रसेभ्यो व्याधयस्सम्भवन्ति तैरेव ते निवर्तन्त इति तदुभयमपि व्याचष्टे-- पक्वेति।

 पक्वामाशयगाः पवनाद्याः स्वादुकषायकटुकैस्तिक्ताम्ललवणैः कालपाकजयोग्यैः[१] धारणरेचकात्मकद्रव्यैर्विविधैः [२]द्विविधामयाः प्रवर्धन्ते ॥ १५ ॥

 पक्वामाशयगाः पवनाद्या इति पक्वाशयमलाशयगता दोषाः लवणैः स्वादुकषायकटुकैः केवलं स्वादुरसद्रव्यादनं कफप्रकोपहेतुकं भवति, स्वादुरसजन्यः पवनप्रकोपो जायते, तत्पवनप्रकोपनिवृत्त्यर्थं लवणाम्लरसद्रव्यादनं कुर्यात् । केवलं कटुरसद्रव्यादनं पित्तप्रकोपजनकम् । पित्तप्रकोपनिवृत्त्यर्थं स्वादुरसद्रव्यादनं कुर्यात् तिक्तरसद्रव्यादनं च । उभयं पित्तनिवर्तकं भवतीत्यर्थ इत्येवंप्रकारेण आयुर्वेदप्रणेतृपरब्रह्मतात्पर्यं वर्णितमित्यर्थः । तथाहि--अतिकटुरसद्रव्यादनेन पवनप्रकोपहेतुकरूक्षगुणविशिष्टद्रव्यादनात् पवनप्रकोपो जायते । कटुरसद्रव्यादनात् रूक्षप्रकोपतैजसगुणजन्यग्रहणीकलाप्रकोपस्य दृष्टत्वात् । तेन पवनप्रकोपे सति ग्रहणीकलायाः सन्धुक्षणकारकस्वभाववत्त्वेन पवनः अतिप्रज्वलनहेतुभूतो भवति । अथवा अतिमान्ध्यकारको वा भवति । तस्मात्कटुरसद्रव्यादनं पित्तप्रकोपकारकं रूक्षगुणविशिष्टपवनप्रकोपहेतुभूतकटुरसवद्द्रव्यत्वात् । तेन ग्रहणीकलाया एव पित्तद्रव्यत्वात् तया अनिलसमगत्या ग्रहणीकला शुद्धा सती प्रज्वलिता भवति । तद्विषमगत्या तद्विकारो भूत्वा अनलं मन्दं करोति ।तेनाजीर्णरोगाश्चाविर्भवन्तीति परब्रह्मण आशयश्च वर्णित इत्यर्थः ॥


  1. कालपाकजैर्योग्यैः-- A & B
  2. द्विविधैः--A & B