पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२५२

पुटमेतत् सुपुष्टितम्
220
आयुर्वेदसूत्रे

 चरमरसपचनधातुर्मज्जाधातुश्शुक्लधातुरिति तावुभौ चरमधातू इत्युपलभ्यते । पवनपित्तकफरोगाणामस्थिधातुपर्यन्तं गतिर्भवति । तदा तद्धातुशोषणमात्रं कुरुते । प्राणघातं न करोति । यावद्विरुद्धरसादनसामग्रीजातरोगस्य यदा मज्जाधातुप्रवेशो भवति तदा प्राणान्विमुच्य निर्वाणं गच्छति । तदा त्रिदोषगतिरिति विज्ञेया ।

 ननु तत्तद्विरुद्धरसद्रव्यादनेन तत्तद्दोषाः प्रकुपिता भवन्ति । सर्वे रोगाः दोषप्रकोपजन्याः । तत्तद्द्रोगनिवृत्त्यर्थं दोषपचनं कार्यमित्याह-- यावदिति ।

 यावदादोषपचनं निवर्तकं ॥ २२ ॥

 यावन्तो रोगाः यावद्रसदोषजन्या इति दोषप्रकोपत्वभूयोभूयोदर्शनहेतुभूतव्याप्तिग्रहजन्यानुमानं तत्र प्रमाणमित्यर्थः । पक्वाशये विरसप्रधानास्ते दोषाः विकारं भजन्ति । धातुमार्गे सञ्चरन्ति च । अनलाद्यामरसास्ते प्रादुर्भवन्तो घ्राणेन्द्रियविषया भवन्तीत्युक्तम् । तद्विरुद्धदोषगमनप्रतिबन्धकार्यं तत्पाचनविधिप्रयतनं लङ्घनकरणेन प्रेक्षणीयम् । स एव फलितार्थ इत्याह--यावदिति ।

 यावद्धातुप्रसादाधीनो दोषपचनकालः[१] ॥ २३ ॥

 विरुद्धरसजातरसासृग्धातुविकारकारकस्यामरसवद्द्रव्यादनजन्याजीर्णजन्यकफरोगः । विरुद्धरसजाततदितरपवनपित्तविकारहेतुकरसविरसद्रव्यादनाभाव कार्यावलम्बिलङ्घनकरणमेव भेषजं

  1. रसाजीर्णविरसाधिकविरुद्धरसजदोषाधिकैकवशान्निर्गतस्वस्थानच्युतो बहिरुज्ज्वलयन् ज्वरस्सामजातः । विषमरसपचनरसविरसादियावद्धातुप्रसादाधीनोदोष–-इति A & B कोशयोः पाठः.