पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२५५

पुटमेतत् सुपुष्टितम्
223
पञ्चमप्रश्नः

 ननु अस्थिगताजीर्णजन्यरसविरसजन्यभेदविशिष्टज्रभेदज्ञाने जाते सति तावत्कालपर्यन्तं लङ्घनविधिर्भवतु । अगामिजन्यदोषागतिजन्यकार्यं विषमज्वरकार्यम् । तस्य लिङ्गज्ञाने जाते सति तयोर्व्याप्तिं भूयोदर्शनेन तत्सहचरज्ञानं संगृह्य भषजं कर्तुं शक्यते । आगामिरोगस्य लिङ्गज्ञानाभावात् कथं लैङ्गिकज्ञानावधारणं भवेत् ? इत्यत आह-- रसेति ।

 रसाजीर्णविरसाधिकविरुद्धरसजदोषाधिकैकवशाभिभूतस्स्वस्थानच्युतो बहिरुज्ज्वलयन् ज्वरस्सामजातः[१] ॥ २५ ॥

 ननु दोषाणां पचनमिति विग्रहः । अत्र षष्ठीतत्पुरुषः । तत्पाचनमेव निवर्तकं कर्मेति प्रतिभाति । दोषाणां शरीरस्थितधातुगत्यविकारैकफलस्य संभावितत्वात् लङ्घनेन दोषपचनं अवश्यकं कार्यमित्युक्ते सति बन्धः स्यात् । धातुपोषकपुरुषार्थोपकारककर्मणि तद्दोषपचनार्थं लङ्घनकर्मकरणस्य दोषस्य बलहीनकार्यकर्मणस्समर्थनैकस्वभावत्वात् । कारणबलाधिक्यकार्ये कर्तव्ये सति तद्धेतुबलहीनकार्यकर्मकरणस्य तथात्वात् । धातुपोषकपुरुषार्थोपकारककर्मणि तद्दोषपचनार्थं लङ्घनकर्मकरणस्य तथात्वात् । तेषामन्त्यपवनदोषहीनपचनकार्यं सूच्यते । तस्मात् विरसाज्जाताजीर्णनिवृत्तिपर्यन्तं लङ्घनकरणं विधिरिति । अन्यथा रसाजीर्णेन रसा विरसा भवन्ति । तद्विरसबाहुल्येन दोषा अपि बलहैन्यवन्तो भवन्ति । हीनकारणेन हीनकार्यं भवति । यत्र विरुद्धा रसा आविर्भवन्ति तत्र दोषा अपि दुष्टा भवन्ति । तद्दो

  1. एतत्सूत्रं A. B. कोशयोः "यावद्धातु" इत्यादिसूत्रात्प्रागेव दृश्यते.