पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२६०

पुटमेतत् सुपुष्टितम्
228
आयुर्वेदसूत्रे

भवन्तीत्यर्थः । तस्मात् एककारणजातकार्यस्यापि समर्थोपधबाधाछिन्नत्वेऽपि कारणवैचित्र्यसंभावितत्वात् जन्यमप्येकमेव कारणं सर्वस्यं जन्यत्वाविशेषात् । अजीर्णजन्यकार्यावच्छेदकं अजीर्णमात्रनिवर्तकमेव निवर्तकम् । अत एवाजीर्णजन्यामयाश्च अजीर्णजन्यविरसविषमरसजातरोगाश्च तत्तत्करणभेदभिन्ना भवन्ति । अजीर्णजन्यामयेभ्योऽजीर्णविरसविषमादनजातरोगाणां भिन्नत्वात् तत्तन्निवर्तका अपि भिन्ना भवन्तीत्यर्थः । तथाऽपि अजीर्णमात्रजन्यामयानां लङ्घनकरणमात्रमेव केवलं निवर्तकम् । तत्र निवर्तकान्तरसामग्रीमपि नापेक्षते अल्पकारणसामग्रीजन्यत्वात् । तद्विषमरसामयजन्याजीर्णव्यतिरिक्ततद्विरसविषमरसादनात् नानारोगा भवन्तीत्याह--विषमरसेति ।

 विषमरसपचनरसविरसादियावद्धातुप्रसादाधीनो दोषपचनकालः ॥ २६ ॥

 विषमरसादनाज्जातरोगाणां यावन्निवर्तककरणं विषमरसदोषजन्यसंस्कारकार्यस्यैव पुरुषार्थत्वात् । तद्विषनिवृत्तिकार्यस्य विषमरसवद्द्रव्यादनजातकार्यजन्यसंस्कारविशेषध्न एव निवर्तकः । तस्मादजीर्णजन्यामया अपि भिन्नाः अजिर्णजन्यविरसविषमजन्यदोषजन्यत्वात् । अजीर्णस्य उभयत्राप्येकत्वेऽपि तज्जनकीभूतरसानां भिन्नत्वकारणवैचित्र्यात् कार्यमपि भिद्यत इत्यर्थः ।

 ननु सामज्वरस्समयभेदात् भिन्नः बहुरूपवदुपायवैचित्र्यात् । काचिज्ज्वरोत्पादकसामग्री अजीर्णरूपा । काचित्सामग्री अजीर्णजन्यविरसविषमरससिरासंस्पर्शजन्यदोषविषमगतिकारकसामग्री । तन्निवर्तकं तु तद्विरसानेकरस द्द्रव्यादनसामग्री । याव