द्विरसाधिकैकजातत्रिदोषरसरूपानुगुणरोगा असाध्याः[१] ॥ ३० ॥
वातपित्तप्रकोपजनका द्विरसाः आमरसस्थितकालजातज्वरप्रकोपकारका भवन्ति । तदा आमरसविरसवत्त्वं विरुद्धकार्यजनकं द्विरसादिविरसान्तरजनककालहेतुकद्रव्यत्वात् । इत्येष ज्वरः सप्तधातुगतस्सन् प्राणघातको भवति । तादृशरोगोऽसाध्यो भवति । तथाहि--
तत्तज्ज्वरोत्पादकामरसविरससामग्रीकार्यं ज्वरोत्पादककार्यमात्रं सप्तधातून्विशोष्य प्राणान्विमोचयति इति यदुक्तं तच्चिन्त्यम् । आमो ज्वरमात्रोत्पादकसामग्री ज्वरं जनयित्वा स्वयं तत्क्षणजन्यसंस्कारं तत्तत्कार्ये विधाय स्वरूपान्न दृश्यते । तेषु पोप्तदसामग्रीजन्येषुवत् (?) सर्वज्यराणामजीर्णजन्यत्वात् ।
ज्वरोत्पादकसामग्रीमात्रजन्यज्वरः प्राणान्विमोचयतीति यत्तत् तथाचेदतिप्रसंगस्स्यादित्यस्वरसादाह--एवमिति ।
एवमेकधातुगताश्चासाध्याः[२] ॥ ३१ ॥
एवमुक्तरीत्या तदुपद्रवरोगाश्च प्राणघातकाः । तद्विरसजन्यदोषानुसरितज्वरहेतुकप्राणापकारकद्रव्यत्वात् । विषादनजातरोगवच्छरीरवत् । वर्णपधगपद्मानुसारिकवर्गपञ्चकज्ञापकपद्माधारकसिराः धातुशोषकपोषकाः । तदाधारकरसवदाश्रितशरीर