पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२६६

पुटमेतत् सुपुष्टितम्
234
आयुर्वेदसूत्रे

शयति, मुञ्चति--इत्येतेषां पञ्चविधकर्मणां शरीराधारकत्वाच्च कफदोषस्यापि शरीरदार्ढ्यकारकत्वात् दोषत्रयं शरीरं रक्षति । तस्माददोषत्वं कथं शरीरोपकारकमिति नाशङ्कनीयम् ।

 दोषाणां विकारकारकत्वाभावः अदोषशब्दार्थः । सदोषाः विकारकार्यापादकगतिगुणविशिष्टदोषाः । सदोषास्सप्तधातुशोषकारकाः । तस्माच्छरीरस्य सदोषत्वं दुष्कर्मानुभववशाल्लभ्यते । तेन धातवः पीड्यन्ते । दुःखं चानुभूयते । समदोषत्वं नाम तदुभयाभावगतिविशिष्टदोषाप्रविवर्धकत्वम् । तेन धातवः पुष्णन्ति । नीरोगत्वं प्राप्नुवन्ति । तस्मात्समदोषं यथा भवति तथा शरीरं सरंक्षणीयमित्यर्थः । सर्वदा शरीरस्थदोषाणां एकरसहेतुभूतकार्यस्य किंचिन्निमित्तं वक्तव्यम् । तदेतद्रसजन्यविरसपरिणामजातरोगकार्यमेवमिति ज्ञातव्यम् ॥

 ननु विषमगतिविशिष्टो यो दोषः तस्य वैषम्ये रोगः । दोषस्य समा गतिरारोग्यमिति व्यपदेशः कृतः । तथा सति षड्रसाः सप्तधात्वात्मकाः । विरसषट्कस्यादनं धातुशोषकम्, तद्रसात्मकदोषधातुविरसद्रव्यत्वात् इत्यनुमानेन धातुशोषककार्यस्य रसादिहेतुत्वम् । तस्माद्दोषवैषम्यं रोगः । दोषसाम्यमरोग इति । यत्प्रतिपादितं तद्विरुद्धमित्यत आह--त इति ।

 ते त्रयो दोषहेतुभूतास्सप्तधातव इति ॥ ३३ ॥

 सप्तधातव इति व्यपदेशमात्रं भवति । षड्रसा एव निश्चितम् । तेषां सप्तसंख्याकत्वं कथं स्यादिति न वक्तव्यम् । रस एवासृक् इति तयोः पार्थक्याभावविवक्षया सत्यं षड्रसास्सप्तधातव इति व्यवहर्तुं शक्यते । तथाहि--