पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२६९

पुटमेतत् सुपुष्टितम्
237
पञ्चमप्रश्नः

त्तद्धातुभेदेन तत्तच्छरीरभेदात् रसभेदजन्यस्य तदधीनज्ञानजन्यत्वात् । द्रव्यभेदोऽपि तथा प्रतीयते यत्र रसाधिक्यप्रतीतिः तत्रैव तत्तद्रव्याधिक्यं तत्तद्भूरुहाणां प्रतीयते । स्वादुरसविशिष्टोऽयं वृक्षः । लवणरसविशिष्टोऽयं वृक्षः । कषायरसविशिष्टोऽयं वृक्ष इति तत्तत्सारभेदेन प्रतीयते । तदेतच्छरीरवन्त इति बहुजनसिद्धत्वादित्यर्थः ।

 ननु पित्तदोषप्रदेशाश्रितमांसमेदोधातुस्स्वादुरसाश्रितः । तस्मात्स्वादुरसस्य पित्तप्रकोपनिवर्तकत्वं वक्तुमशक्यम् । विरोधस्स्यात् । रसानां धात्वात्मकत्वात् । धातूनां रसाश्रितमांसाश्रितत्त्वात् । तद्दोषाश्रितरसात्मकधातूनां दोषप्रकोपनिवर्तकत्वं वक्तुमयोग्यमित्यस्वरसादाह--पित्तेति ।

 पित्ताश्रयात्तदधीनपित्तमांसमेदोनुसरन्नस्थिमृदुकारकः ॥ ३५ ॥

 पित्ताश्रितत्वात् मांसमेदोधातुस्स्वादुतिक्तकषायत्त्वात् तदाश्रितपित्तविरोधकत्वं शुद्धस्वादुरसस्य शुद्धतिक्तरसस्य शुद्धकषायरसस्य च वक्तुं न शक्यते, तदाश्रितरसात्मकत्वात् । किंतु पित्तप्रकोपाय विरोधित्वस्य वक्तुमुचितत्वात् पित्ताश्रितत्वादिति तदधीनपित्तमिति पित्तं रसाधीनम् । पित्तप्रकोपे सति तद्रसवद्द्रव्यस्यैव तन्निवर्तकत्वात् स्वादुरसाधीनं पित्तमिति मांसमेदोधातुगतं सत् वर्तते । मृदुस्थौल्यगुणं विधत्ते ।

 ननु दोषत्रयनियुक्तरोगा असाध्याः । तद्दोषप्रकोपकार्यत्वं रसविरसाधीनजन्यविकारहेतुकं दोषवृद्धिक्षयोत्पादनकार्यनिवर्तकद्रव्यत्वात् । अतः कषायप्रकोपयुक्तकार्योपयोगिकेतरदोषाश्रयकार्यं व्यपदिशति--मन्देति ।