पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२७०

पुटमेतत् सुपुष्टितम्
238
आयुर्वेदसूत्रे

 मन्दोष्णादिसमदोषाधिकाक्षीणवृद्धिगुणकास्थिमज्जामेदोऽधिष्ठिताः ॥ ३६ ॥

 मन्दगुणवत्त्वावच्छेदकपवनत्त्वं उष्णगुणवत्त्वावच्छेदकपित्तत्वं तदितरदोषकफावच्छेदकं तत्क्षीणवृद्धिगुणाश्रयत्वम्, तथा सति मज्जाधातुपर्यन्तगतसकलसामग्रीसान्निध्यं सम्पादयन् रोगाभिवृद्धिं कुर्वन् तद्रोगिणमन्त्यसन्निहितं करोतीत्यर्थः ।

 ननु दोषाणां मज्जाधातुपर्यन्तं रोगावरोहणेन सकलधातुदोषगसामग्र्यां सत्यां पञ्चधातुगतप्राणोद्भवानां च वायूनां संञ्चाराभावत्वेन तच्छरीरं विहाय बहिःप्रवेशगतत्वात् स जीवः शरीरावतरितो भवति । दोषाणां कार्यकारित्वस्य तावन्मात्रेणैव चरितार्थत्वात् शुक्लधातुप्रवेशजकार्यकरणस्य प्रयोजकत्वाभावात् । तस्मात्सप्तधातुगणनस्य प्रायोजकत्वाभावेन व्यर्थं स्यादित्यस्वरसादाह--अदोषेति ।

 अदोषधातुरसानुसारानुसरास्थिरसपचनचरमधातुप्रचारकाः ॥ ३७ ॥

 एतत्कार्यकारकस्य पचनत्वं दोषाणां चरमधातुप्रचारणत्वम् । प्रचरन्तीति प्रचारकाः । शुक्लधातुपोषककार्यं शुद्धस्वादुरसादनहेतुकम् । न शोषककार्यम् । अदोषत्वं नाम अदोषधातुरसानुसारानुसरदोषप्रकोपकार्याभाववृद्धिकारकमित्यर्थः । उक्तमर्थमुपसंहरति--भूतेति ।

 भूतपूर्वपदार्थजातधातुहेतुभूतानलसमरसपचनविरुद्धार्थरसपाकयोगाद्विपर्ययः ॥ ३८ ॥