पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२७५

पुटमेतत् सुपुष्टितम्
243
पञ्चमप्रश्नः

 सप्तधातूनां षड्रसात्मकत्वं स्वाद्वम्लवणतिक्तोषणकषायरसानाममृतपोषकत्वं कथं स्यादित्यत आह--मधुरेति ।

 मधुररसं प्रचालयन् शुक्लधातुस्थाने स्वतेजसा भाति ॥ ४४ ॥

 मधुररसवद्द्रव्यम्, स च पित्तेन पच्यमानस्सन् तत्पाचकपित्तपाकजन्यक्रियासंस्कारवशात् शुक्लधातुत्वेन वर्धते । कषायरसद्रव्यादनादजीर्णे जाते सति पवनप्रकोपो भवति । पवनदोषप्रकोपः शुक्लधातुगतस्सन् शुक्लशोषणकार्यं करोति । तद्विरसद्रव्यं पाचकपित्तेन पच्यमानं सत् रसासृग्धातुविकारं करोति । शुक्लधातुस्थानं गगनभूतप्रदेशः । गगनभूतगुणाधिक्यद्रव्यसिद्धं तेजः । पित्तकलापचनजातसंस्कारयुक्ततेजस्त्वात् शुक्लधातुरूपगुणो भातीत्यर्थः । तत्स्वादुरसविरसद्रव्यादनादजीर्णे जाते सति सोऽसृग्धातुविकारं करोति । तदनिवर्तने जलमलातिसाररोगादयस्संभवन्तीत्यर्थः । शुक्लधातुवृद्धिरूपलवणरसाधिक्यद्रव्यत्वात् तेजसा भाति । रसासृग्धातुविकारवृद्धिश्च एतद्विरसाधिक्यस्वतेजसा भातीयर्थः ॥

 ननु यावद्रसवदन्नादनं कफप्रदेशहृद्गतमात्रं सत् भुक्तं मधुरीभूतविकारं भजते । ततः पक्वाशयं प्रविश्य आम्लरसविकारं भजन् पाचकपित्तेन पच्यमानं सत् स्वभावाम्लरसवद्रव्यमज्जाधातुमेधते ॥

 धातुगतामयानवहृत्य कालपाकजीतीयजातौपाधिकरसप्रधानगुणान् यच्छति ।