पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२८४

पुटमेतत् सुपुष्टितम्
252
आयुर्वेदसूत्रे

अगणितत्वात् कथं प्रजाजननहेतुभूतपद्मं न प्रतिभासत इति । तथा सति सर्वकालेऽपि त्रिकोणपद्मस्य यावच्छरीरपर्यन्तं सत्वात् प्रजोत्पत्तिस्स्यात् । स्त्रीपुरुषसंयोगव्यतिरेकेण प्रजोत्पत्तेरदृष्टत्वात् इति नाशङ्कनीयम् । सप्तधातुमयशरीरं शरीरान्तरजनकम् । तस्मात्त्रिकोणपद्मान्तरं जायत इत्यर्थः । इन्द्रियं प्रजाजननहेतुभूतं न वर्णोत्पादकं बाह्यकर्मकृत्याधारभूतत्वात् । तस्मात्प्रजाजन्मप्रतिपादनकथनं सर्वकालेऽपि संभावितमिति यत्तदयुक्तमिति तात्पर्यम् । महाशरीरपिपीलिकाशरीराणां इदं त्रिकोणपद्मं सर्वसुखसाधनमिति निश्चित्य प्रवृत्तेर्दृष्टत्वादित्यर्थः ।

 ननु केवलं त्रिकोणपद्मं न प्रजाजननहेतुकं शुक्लधातोरेव प्रजाजननकार्यहेतुत्वात् । तस्य आधारभूतमात्रत्वेनैव चरितार्थत्वात् । अङ्कुरोत्पादकबीजावापं विना प्रजाजननकार्यस्यायोग्यत्वादित्यस्वरसादाह--तस्मादिति ।

 तस्मात्तनुरजायत । तस्माच्छाखाश्शरीरे भान्ति ॥ ५१ ॥

 तस्मात्पूर्वोक्तरीत्या स्त्रीणां पुंयोगे सति प्रजाजननकार्यं शक्यते । अन्यथा तत्सर्वं शाखाशरीरस्य मेढ्रस्य प्रजाजननहेतुभूतत्वेऽपि (न संभवति) तन्मेढ्रस्यापि शाखाशरीरत्वात् । तस्मादित्युपसंहारसूत्रद्वयप्रदेशात् त्रिकोणस्थानमपि प्रजाजननहेतुभूतम् । तद्वन्मेढ्रस्यापि प्रजाजननहेतुत्वमिति तन्मेढ्रस्यापि शाखाशरीरत्वात् । तस्मादित्युपसंहारसूत्रद्वयप्रदेशात् त्रिकोणस्थानमपि प्रजाजननहेतुभूतम् । तद्वन्मेढ्रस्यापि प्रजाजनन