पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२८६

पुटमेतत् सुपुष्टितम्
254
आयुर्वेदसूत्रे
[१]तज्जन्यामृतं तत्पोषकम् ।
५२
 
अचलोऽजो मनोविषयकः ।
५३
 
तद्ज्ञानं तत्पुरुषार्थकम् ।
५४
 
सात्विकद्रव्यादनं तद्बोधकम् ।
५५
 
इतरार्थादनात्तन्न भाति ।
५६
 
रजस्तमोगुणौ आत्मज्ञान[२] प्रतिबन्धकौ ।
५७
 
सर्वार्थानां हेतुभूतं शरीरम् ।
५८
 
सोऽजस्समं[३]पश्यति ।
५९
 
स सर्वान्नमत्ति ।
६०
 
तत्पोषकोचितरसास्तच्छाखाफलकाण्डतत्पोषकाः ।
६१
 
प्रातःपूर्वाह्णादनै रसविकारं निरीक्षयेत् ।
६२
 
विसृष्टविण्मूत्राद्विमलाशयः ।
६३
 
अरोगस्याशयास्सर्वशरीरसाधकाः ।
६४
 
रसाशयस्साशयस्सर्वाशयो वा शरीरी ।
६५
 
षट्पञ्चाशद्वसुमतीकला हृद्देशा भान्ति ।
६६
 
नाभ्यामुद्भूतजाताः पञ्चाशत्प्रभाः प्रविभान्ति ।
६७
 
तदूर्ध्वानले द्वाषष्टिमयूखाः प्रतिभान्ति ।
६८
 
चतुःपञ्चाशत्कुक्षौ पवननिष्ठाः प्रभाः प्रपद्यन्ते ।
६९
 
तदूर्ध्वं वियद्गता द्वाषष्टिप्रभाः प्रकाशन्ते ।
७०
 
श्रोत्रनेत्रनासिकामध्यगतमनस्सु मयूखा विकसन्ति ।
७१
 
तदूर्ध्वकायान्तस्स्थितसहस्रारे पद्मे शुक्लरूपद्वयं यत्र प्रतिभाति ।
७२
 


  1. पञ्चमप्रश्ने एकपञ्चाशसूत्रपर्यन्तमेवोपलब्धं भाष्यं यथामातृकं मुद्रितम् । अतःपरं षोडशप्रश्नपर्यन्तं भाष्यानुपलम्भात्सूत्राण्येव केवलं मुद्रितानि.
  2. तद्ज्ञान--B
  3. स्सर्वं‌--B