पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२९६

पुटमेतत् सुपुष्टितम्
264
आयुर्वेदसूत्रे
हृस्वं लघु । उत्तरोत्तरं गुरु कालपाकजद्रव्यम् ।
१७
 
तथाश्वेतकृष्णरक्तधूम्रभेदाह्वया [१]गुरुसमलघुगुणदाः ।
१८
 
क्रमाद्वातपित्तकफामयापहाः ।
१९
 
प्रथममध्यमान्तिमानामेकैकवर्णा विरसमध्यमोत्तमरूपभूसारजात[२] रूपभेदा भवन्ति ।
२०
 
वर्णभेदादिकं धान्यम् ।
२१
 
नवधान्यानि भवन्ति ।
२२
 
सप्तधातूनां दोषत्रयाणां पोषकशोषकसमहीनमध्यमोत्तमगुणदं धान्यम् ।
२३
 
एवमेतावान्प्रियङ्गवः[३]
२४
 
श्यामाकाश्च मे नीवाराश्च मे ।
२५
 
उद्दालकानामेवं विद्यात् ।
२६
 
आद्यास्त्रयो धातुपोषकाः ।
२७
 
इतरे शोषकाः ।
२८
 
उद्दालकस्स्वादुरसः । पवनप्रकोपहारकः । स्थूलादिभेदात्पूर्ववद्गुणदायकः । अस्थिरसदोषनिवर्तकः ।
२९
 
आद्यपवनगतिक्रमोद्भूता[४]तिरिक्तगत्यागतामृत[५] सुधाभावभूतास्तत्तद्गुर्णं[६]शोषकाः ।
३०
 
पवनप्रथमप्रयाणाधिगतनिस्सृतामृतपूताम्भःक्ष्मारसगुणाम्लरसो विरसो भवति ।
३१
 
हीनाधिकश्चायमितरेतरं[७] विभाति ।
३२
 


  1. धूमभेदास्त्रिहयो--A.
  2. भूतस्सारजात--C.
  3. ङ्गत:--B&C.
  4. क्रमायाद्भूताति--A&C.
  5. गतमृत--A.C.
  6. स्तद्गुण--A.C.
  7. धिकछायेतरेतरं--B.