पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२९७

पुटमेतत् सुपुष्टितम्
265
सप्तमः प्रश्नः
मध्यानिलगतिकृत[१]कार्यं घ्राणेन्द्रियमविषयीकुरुते[२]
३३
 
दोषगत्या तद्विषयमविषयीकुरुते ।
३४
 
गन्धवती पृथिवी ।
३५
 
मधुमाधवसमयोचित[३]मधुररसोऽरिष्टरोगहारकः ।
३६
 
मधुश्च माधवश्च वासन्तिकावृतू ।
३७
 
द्वितीय[४]भूतोद्भवस्वादुरसक्रमातिक्रमाद्विरसो भवति ।
३८
 
तद्रसश्चरमधातुपोषकः । तज्जन्यगुणो विकारकः ।
३९
 
जलमलं अजलजम्बुलं[५] विभाति ।
४०
 
यावत्सारविकार[६]निवर्त्यनिवर्तका[७] निवर्तन्ते ।
४१
 
तज्जन्यान्यजन्यश्वयथुजन्यमरिष्टसूचकम् ।
४२
 
अन्नाद्यनद्य[८]मतिसारसरणं गतायुर्ज्ञापकम् ।
४३
 
अनामसार[९]विगतिर्यत्रान्तकालमयात्मिका[१०]
४४
 
कषायरसनिभं आम्लगात्रभूरुहे[११]
४५
 
अविषयविषयानुभवः[१२] तत्कार्यनाशकः ।
४६
 
साध्यासाध्यज्ञानपूर्विका चिकित्सा[१३]
४७
 
सारविषये[१४] विधिज्ञं पण्डितमभिमन्येत ।
४८
 
अप्रमत्तश्चिकित्सायाम् ।
४९
 
असाध्यात्स्याज्याः ।
५०
 


 AYURVEDA
34
 
  1. गतकृत--A&C.
  2. मविषयं कुरुते--B.
  3. माधवसंयोजित-–AC.
  4. द्वितृतीय--B.
  5. अजलजम्बुला--A&C.
  6. विकारा इति सुपठम्.
  7. निवर्तकेन--A&C.
  8. दन्याद्य--A&B&C.
  9. अनायासार--A&C. अनायसार--B.
  10. कालमयापिका–-A.
  11. नैतत् A.C. कोशयोरस्ति.
  12. नुभवात्--B.
  13. कार्या स्वचिकित्सा-A.C.
  14. साध्यविषये इति सुपाठः.