पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३०७

पुटमेतत् सुपुष्टितम्
275
नवमः प्रश्नः
पञ्चदशाहः पक्षः ।
२२
 
पक्षद्वयं मासः ।
२३
 
मासद्वयं ऋतुः ।
२४
 
त्रिऋतु एकायनम् ।
२५
 
षडृतवो द्वादशमासासंवत्सरः ।
२६
 
स वर्षस्तावद्बल[१]नियामकः ।
२७
 
दिनपक्षमासऋतुसंवत्सरायनं कालं करोति ।
२८
 
रसभेदाद्विविधफलमन्योन्यं करोति ।
२९
 
द्रव्यभेदाद्दुरधिगता बहुकाले बहुविधा भूता भवन्ति ।
३०
 
मधुमाधवसमये मधुररसः प्रादुरभूत् ।
३१
 
मधुश्च माधवश्च वासन्तिकावृतू ।
३२
 
मधुररसः पवनं हन्ति कफप्रकोपहेतुकः ।
३३
 
ततोऽधिरसः पित्तं हन्ति कफप्रकोपकारकः[२]
३४
 
स्वादुस्तिक्ततया पाके भाति ।
३५
 
शुक्लधातुस्तेनैव वर्धते ।
३६
 
तद्विशुद्धगुणकारकः ।
३७
 
स्वस्थास्सप्तधातवः[३] प्रवर्धन्ते ।
३८
 
तदविकारे सति मधुप्रेरितं शुक्लम् ।
३९
 
तद्वृतौ[४] मधुरान्नादनं भेषजम् ।
४०
 
स्त्रीपुरुषयोरङ्गाङ्गलिङ्गनं तदा[५]
४१
 
सर्ववर्णपुंसां[६] तत्तत्प्रियतमाः पोषकाः ।
४२
 
तत्तत्काले तत्तद्रसवद्विभाति[७]
४३
 


  1. यावद्वर्षास्तावद्बाल--B&C.
  2. नैतत् B कोशे.
  3. स्वास्थानलः सप्तधातवः--A&C.
  4. तद्वृद्धौ--सुपाठः.
  5. तथा--A&C.
  6. सर्वपुंसां--C.
  7. द्रसो विभाति--C.