पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३०८

पुटमेतत् सुपुष्टितम्
276
आयुर्वेदसूत्रे
तत्साजात्यरसवद्द्रव्यं पोषकम् ।
४४
 
शुक्रशुचिसमये आम्लरसः प्रादुरभूत् ।
४५
 
शुक्रश्च शुचिश्च ग्रैष्मावृतू ।
४६
 
अम्लरसः अनिलप्रकोपकारकः ।
४७
 
अधिकाम्लद्रव्यं पित्तप्रकोपनाशनम् ।
४८
 
कफप्रकोपहेतुर्भवति ।
४९
 
अधृतं[१] पोषकं कार्यम् ।
५०
 
अन्नपानव्यञ्जनाहाराभिभाषणैः कालानुकूलस्रक्चन्दनादिकं भेषजम् ।
५१
 
एतदृतुनैव प्रापयेत् ।
५२
 
नभोनभस्यकालयोगाल्लवणरसः [२]प्रपद्यते ।
५३
 
नभश्च नभस्यश्च वार्षिकावृतू ।
५४
 
अस्थिधातुपोषकः तत्तत्कालोचितकार्यकारणः ।
५५
 
अविकारं निरीक्ष्यैतत्प्रयोजयेत्[३]
५६
 
विसृष्टविण्मूत्राद्विमलाशयः ।
५७
 
लवणं पवनं हन्ति कफपित्तहेतुकम् ।
५८
 
हीनाधिकलवणरसः कफपवनं हन्ति पित्तं कुरुते ।
५९
 
इषोर्जमासयोगात्तिक्तरसः प्रादुरभूत् ।
६०
 
इषश्चोर्जश्च शारदावृतूम् ।
६१
 
तिक्तं स्वादु पाके ।
६२
 
हीनाधिकतिक्तरसः पित्तकफं हन्ति मारुतं कुरुते ।
६३
 
दोषहेतुप्रकोपो भवति ।
६४
 


  1. अदृतं—C, अदृशं-–B.
  2. प्रादुरभूत्--B.
  3. त्प्ररोवयेत्--A&C.