पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३१०

पुटमेतत् सुपुष्टितम्
278
आयुर्वेदसूत्रे
अरुचिश्वासशीधुहिक्काहृदामयाः प्रपद्यन्ते ।
८६
 
जृम्भान्तर्धानात् कण्डूपाण्डुज्वरकुष्ठविसर्पिदुष्टकोष्ठामयाः प्रपद्यन्ते ।
८७
 
प्रियालापस्वापनं भेषजम् ।
८८
 
क्षतजासृङ्निरोधनात् शोभपाण्डुज्वरदोषप्रदो भवति ।
८९
 
छर्दितिरोधनात् मोहभ्रमारुच्यनिलातिमन्दकारकाः ।
९०
 
ऊर्ध्वाधोविरोचनं भेषजम् ।
९१
 
चरमधातुविसर्जनकालज्ञसन्निरोधनात् तेजअयुःक्षमो[१] भवति ।
९२
 
मेहातिसारशोभहृदामयाः प्रपद्यन्ते ।
९३
 

इत्यायुर्वेदस्य नवमः प्रश्नः समाप्तः.


अथ दशमः प्रश्नः.


देहानिलपथगतसुखकालविरुद्धकर्मकरणं देहविनाशकं भवति ।
 
तत्तत्पोषकद्रव्यजन्यं भेषजम् ।
 
तत्कालोचितकार्य[२]करणम् ।
 
यावदृतुजातरसाः पोषकाः ।
 
अहरहरविकारं निरीक्षयेत् ।
 
पथ्योचितान् पोषयेत् ।
 
तदुपकारकद्रव्यावलोचनमार्जनं[३] धातुपोषकम् ।
 


  1. क्षयः इति पाठे भिषजः प्रमाणम्.
  2. कारणम्--B.
  3. मज्ञवनं--A. मज्जवनं--C.