शौण्डं तिक्तरसं कफमुखरोगहरं वृष्यं बल्यं रसायनम् ।
२८
कोलिकं कटुरसं वातपित्तान्यमुखरोगजित् ।
२९
गुवाकः
[१] कषायरसो भेदिमोहकृत्कफ
[२]पित्तहरः ।
३०
नीली
[३] तिक्तरसः वृष्यादिविषप्रमोहजित् ।
३१
तपस्विनी तिक्तरसा श्लेष्मामयरक्तपित्तविनाशिनी ।
३२
धरुषी
[४] तिक्तरसो विषकुष्ठविनाशकः ।
३३
शैलेयकं तिक्तरसं विषमुर्च्छाभ्रमपवनपित्तविनाशकम् ।
३४
वालुकं
[५] तिक्तरसं
[६] वातपित्तशिरोरुङ्नुत् ।
३५
लाक्षा तिक्तरसा कफकुष्ठज्वरभ्रमविनाशिनी ।
३६
सुप्रभा तिक्तरसा ज्वरविदाहापहा गर्भस्थामयान् हन्ति ।
३७
ताम्रपुष्पी
[७] कषायरसः रक्त
[८]पित्तातिसारजिद्गर्भसंस्थापनः
[९] ।
३८
पौण्डरीकं
[१०] मदभ्रमरक्तपित्तातिसारजित् ।
३९
सिंहिका कटुरसा उष्णज्वरारोचकानाहघ्नी ।
४०
तिन्त्रिका
[११] कटुरसा कफमेहामयापहा वृष्यबृह्मणी ।
४१
शैलूषः स्वादुरसः सर्वशूलछर्द्यतिसारहरा दीपनपाचनबल्या ।
४२
तिन्त्रिका कटुरसा शोभपाण्डुकफानिलघ्नी दोषापहा ।
४३
तिन्दुकः
[१२] कटुरसः कफामयापहः ।
४४
- ↑ गुवा--B.
- ↑ मोहहृत्कफ--A.C.
- ↑ निरि--A.&.C.
- ↑ धरुषिः--C.
- ↑ B कोशे पदद्वयमिदं त्यक्तम्.
- ↑ B कोशे पदद्वयमिदं त्यक्तम्.
- ↑ ताम्रपुष्पं--A.&.C.
- ↑ कफ--A.&.C.
- ↑ सारद्विड्भवसंस्थापिनी--B.
- ↑ हेण्डलिकं--B.
- ↑ तन्त्री दन्ती--B.&.CA.
- ↑ टुन्दुकः--A. डुन्दुकः--C.