पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३१५

पुटमेतत् सुपुष्टितम्
283
एकादशः प्रश्नः
लवणो लवणरस उच्यते[१] । सकलशूलपवनापहः[२]
८१
 
पटुजः कटुरसः रक्तातिसारत्रिदोषघ्नः ।
८२
 
सामकं[३] कटुरसं गुल्मादनावचनम् ? ।
८३
 
गुदाच्च द्व्यङ्गुलादूर्ध्वं मेढ्राश्च द्व्यङ्गुले तथा ।
 
चतुरङ्गुलिमायामं विस्तारं कुक्कुटाण्डवत् ॥
८४
 
ओमात्महितदण्डेस्मिऽन् चक्रमध्ये मतेऽनिशम् ।
 
अष्टप्रकृतिरूपाऽस्ति कुण्डली सुप्तनागवत् ॥
८५
 

इत्यायुर्वेदस्य दशमः प्रश्नः समाप्तः.


अथ एकादशः प्रश्नः.


[क्लेशतनूकरणार्थः] देहानिलगतिकरणार्थश्च ।
 
अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः ।
 
अविद्याक्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ।
 
अनित्याशुचिदुःखानात्मसुनित्यशुचिसुखात्मख्यातिरविद्या ।
 
दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ।
 
सुखानुशायी रागः ।
 
दुःखानुशायी द्वेषः ।
 
स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ।
 
ते प्रतिप्रसवहेयाः सूक्ष्माः ।
 
ध्यानहेयाः तद्वृत्तयः ।
१०
 
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ।
११
 


  1. रुच्यते-—A.
  2. नातः परं B कोशे A ग्रन्थो दृश्यते--
  3. नामकं Namak=Salt ?