पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३१८

पुटमेतत् सुपुष्टितम्
286
आयुर्वेदसूत्रे

अथ द्वादशः प्रश्नः.


देशबन्धः चित्तस्य धारणा ।
 
तत्र प्रत्ययैकतानता ध्यानम् ।
 
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ।
 
त्रयमेकत्र संयमः ।
 
तज्जयात्प्रज्ञालोकः ।
 
तस्य भूमिषु विनियोगः ।
 
त्रयमन्तरङ्गं पूर्वेभ्यः ।
 
तदपि बहिरङ्गं निर्बीजस्य ।
 
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ।
 
तस्य प्रशान्तवाहिता संस्कारात् ।
१०
 
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ।
११
 
शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्र्यतापरिणामः ।
१२
 
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ।
१३
 
शान्तोदिताव्यपदेशधर्मानुपाती धर्मी ।
१४
 
क्रमान्यत्वं परिणामान्यत्वे हेतुः ।
१५
 
परिणामात्रयसंयमादतीतानागतज्ञानं ।
१६
 
शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्करस्तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ।
१७
 
संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ।
१८
 
प्रत्ययस्य परचित्तज्ञानम् ।
१९
 
न तत्सालम्बनं तस्याविषयीभूतत्वात् ।
२०