पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३२५

पुटमेतत् सुपुष्टितम्
293
चतुर्दशः प्रश्नः
यावत्तनूरुहस्तावत्तनूंषि विभूति । पर्जन्येनोपधिवनस्पतयं प्रजायन्ते । पर्जन्यो मे मूर्ध्नि श्रितः । मूर्धा हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि ।
४४
 
[१]वनस्पतिप्रेरितो मन्युर्भवति । ईशानो मे मन्यौ श्रितः । मन्युर्हृदये । हृदयं मयि । अहममृते । अमृतं ब्रह्मणि[२]
४५
 
अयुर्वेदशज्ञानं नक्षत्रज्ञानपूर्वकम् ।
४६
 

इत्यायुर्वेदस्य त्रयोदशः प्रश्नः समाप्तः.


अथ चतुर्दशः प्रश्नः.


अश्वनीनक्षत्रात्मकं सप्तत्रिंशत्सिरावृतं अवर्णाधारकपादपद्मं सर्वशरीराधारकम् ।
 
भरणि-ऋक्षरूपं सप्तत्रिंशत्सिराश्रितं इवर्णजानुपद्म चलनक्रियाकारकगतागतकर्मोपकारकम् ।
 
कृत्तिकाभाधिष्ठितं सप्तत्रिंशत्सिरावृतं उवर्णाश्रितजङ्घापद्मं जङ्गमशरीराधारकम् ।
 
रोहिणी-ऋक्षरूपं सप्तत्रिंशत्सिरावृतं ऋवर्णाश्रितमेढ्रपद्मं

प्रजाजननकारकं । सिरावलम्बक-ऋवर्णबोधकोरुपद्मं

जङ्गमशरीरधारकम् ।
 
मृगशिरोनक्षत्ररूपं सप्तत्रिंशत्सिराश्रितं लृवर्णबोधकप्रदेशगतकमलं जलमलाशयधारकम् ।
 
आर्द्रानक्षत्रात्मकं सप्तत्रिंशत्सिराश्रितं एवर्णज्ञापकपृष्ठप्रदेशकमलं[३] अतिसुखकारकम् ।
6
 


  1. वनस्मतीत्यादि–-ब्रह्मणीत्यन्तं न कोशे.
  2. तै. ब्रा. III. 10, 8.
  3. रतिसुखकारकम्--C.