पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३२७

पुटमेतत् सुपुष्टितम्
295
चतुर्दशः प्रश्नः
अनूराधानक्षत्रात्मकं सप्तत्रिंशत्सिरावृतं छवर्णद्योतकं दक्षिणभुजपद्मं ऊर्ध्वकायधारकम् ।
१८
 
रोहिणी[१]नक्षत्ररूपणं सप्तत्रिंशत्सिरावृतं वामभुजपद्मं ऊर्ध्वकायाधारकम् ।
१९
 
[२]विचितृ ऋक्षरूपं सप्तत्रिंशत्सिराधारकजवर्णद्योतकं दक्षिणबाहुपद्मं सर्वकर्मोपकारकम् ।
२०
 
आषाढऋक्षरूपं सप्तत्रिंशत्सिरावृतं झवर्णज्ञापकं वामबाहुपद्मं सर्वकर्मोपकारकम् ।
२१
 
आषाढनक्षत्रात्मकं सप्तत्रिंशत्सिराधारकं ञवर्णद्योतकं दक्षिणप्रकोष्ठपद्मं हस्तकौसल्यद्योतकम् ।
२२
 
श्रोणानक्षत्रात्मकं सप्तत्रिंशत्सिरावृतं टवर्णबोधकवामप्रकोष्ठपद्मं हस्तकौशल्यज्ञापकम् ।
२३
 
श्रविष्ठानक्षत्रात्मकं सप्तत्रिंशत्सिरावृतं ठवर्णयोबोधकं दक्षिणपाणितलपद्मं सर्वार्थाभिनय (ज्ञानज्ञापक) ज्ञापकम् ।
२४
 
शतभिषक्-नक्षत्रात्मकं सप्तत्रिंशत्सिराधारकं डवर्णबोधकं वामपाणितलपद्मं सर्वार्थाभिनयज्ञान (ज्ञापकज्ञान) हेतुकम् ।
२५
 
प्रोष्ठपदानक्षत्रात्मकं सप्तत्रिंशत्सिरावृतं ढवर्णद्योतककण्ठपद्मं तत्तद्वर्णाश्रिततत्तत्स्वरभेदज्ञापकम् ।
२६
 
प्रोष्ठपदानक्षत्रात्मकं सप्तत्रिंशत्सिरावृतं णवर्णद्योतकग्रीवापद्मं पञ्चप्राणाधारकम् ।
२७
 
प्रोष्ठपदानक्षत्रात्मकं सप्तत्रिंशत्सिरावृतं तवर्णबोधकहृदयपद्मं इच्छाप्रयत्नात्मज्ञानहेतुकम्[३]
२८
 


  1. रोहिणीति ज्येष्ठानक्षत्राय नामान्तरम् वर्णविन्यासस्तु नकृतः
  2. विचृतिः इ वेदे. तै. सं. IV. 4, 10.
  3. तृतीयमिदं प्रोष्ठपदानक्षत्रमधिकमिति भाति.