पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३२९

पुटमेतत् सुपुष्टितम्
297
चतुर्दशः प्रश्नः
रोहिण्यपस्मारः[१]
५३
 
विचृतिः क्षयः[२]
५४
 
पूर्वाषाढा कुष्ठा[३]श्मरीरोगः ।
५५
 
उत्तराषाढा कुष्ठ[४]छर्दिविकारकः ।
५६
 
श्रोणा हृदयामयः ।
५७
 
श्रविष्ठा पवनः ।
५८
 
शतभिषक् पित्तरोगः ।
५९
 
प्रोष्ठपदं कफामयः ।
६०
 
प्रोष्ठपदं मदात्ययः ।
६१
 
रेवती व्रणम्[५]
६२
 
अश्विनीनक्षत्रविरुद्धगतिहेतुग्रहयुक्ततत्तत्कालानुगतरसाजीर्णजन्यामपित्तविषक्रिमिविकारकज्वराः प्रदृश्यन्ते ।
६३
 
अवर्णज्ञापकयावत्सिरानालावृतौषधयः ज्वरप्रकोपनिवर्तकाः ।
६४
 
अजीर्णजन्यामपित्तविषक्रिमिनिवर्तकं यत्तदेव भेषजम् ।
६५
 

{{rh|left=औषधिदानजपहोमदेवतार्चनं निवर्तकम् ।|right=६६

"यत्रौषधयस्समग्मत राजानस्समिताविव । विप्रस्स उच्यते भिषक् रक्षोहा अमीवचातनः"[६]
६७
 
कटु[७]रोहिकागणचोविर[८]सविषपाषाणलोहपुटद्रव्यप्रयुक्तयोगास्तदामयनिवर्तकाः ।
६८
 
 AYURVEDA
38
 


  1. ज्येष्ठारोह्यपस्मारः--A.
  2. मूलं विद्रधिः क्षयः--A. मूलं विधृतिः क्षयः--C.
  3. अत्र रोहिणी विचृतिरिति ज्येष्ठामूलयोर्वेदिके नामधेयेऽजानता लेखकेन ज्येष्ठामूले सूत्रयोः प्रक्षिप्य रोहिणीविचृतिशब्दौ रोगबोधकाविति वर्णव्यत्यासेन लिखिताविति भाति.
  4. अष्ट--A&C.
  5. श्रवणम्--C. स्रवणम्--A.
  6. ऋग्वेद X 97, 6.
  7. कउ--A & C.
  8. चविरस--Dr. B.S.