पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३३१

पुटमेतत् सुपुष्टितम्
299
पञ्चदशः प्रश्नः
लृर्णबोधकयावत्सिरानालावृतौषधियोगकरणं अजीर्णामयनिवर्तकम् ।
८४
 
सोमदेवताप्रार्थनादिकं निवर्तकम् ।
८५
 
आर्द्रानक्षत्रविगतियोगजातग्रहयुक्तकालसंयोगवशात् मन्दानलरोगः प्रवर्तते । ए ऐ वर्णज्ञापकयावत्सिरानालावृतयावन्निवर्तकद्रव्यं मन्दानलभेषजम् ।
८६
 
तत्तद्दुरितनिवर्तकयावत्प्रायश्चित्तरूपरुद्रदेवताप्रार्थनं विधिः ।
८७
 

इत्यायुर्वेदस्य चतुर्दशः प्रश्नः समाप्तः.


अथ पञ्चदशः प्रश्नः.


पुनर्वसुविगतिजातग्रहयुक्तकालसंयोगवशात् विषूचीरोगः प्रवर्तते ।
 
आ औ वर्णज्ञापकयावत्सिरावृतौषधियोगकरणं विषूचीरोगनिवर्तकम् ।
 
अदितिदेवताप्रार्थनं भेषजम् ।
 
तिष्यनक्षत्र विगतिजातग्रहयुक्तसमयविशेषवशादरुचिरोगस्सम्पद्यते ।
 
[१]अं वर्णद्योतकयावत्सिरानालावृतयावन्निवर्तकद्रव्यं अरुच्यामयनिवर्तकम् ।
 
बृहस्पतिदेवताप्रार्थनं भेषजम् ।
 


  1. नक्षत्राणां वर्णयोगक्रमोऽत्र पूर्वप्रश्नोक्तक्रमाद्भिद्यते ।