पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३३६

पुटमेतत् सुपुष्टितम्
304
आयुर्वेदसूत्रे
पटोल गोपा घनवृषरोहिणि केश्य चन्दन तिक्तावर्युत्पलयष्टिद्राक्षेक्षुपद्मक रेणुक निम्ब वधूत्रायन्ती मदयन्तीवत्सक मूर्वाप्रियङ्गु महती स्थिरापर्णि बलावटरुह विश्वमोचरसवद्यावत्पदार्थाः चूर्णक्वाथतैललेहविकाररूपाद्याः रक्तपित्तामयप्रकोपहारकाः ।
६५
 
अम्बुभूताधिकद्रव्यादनाजीर्णजन्यामपित्तविषक्रिमिग्रस्तसिराविकारहेतुकाश्वासकासविकाराः ।
६६
 
वह्निभूताधिकगुणोपलम्भकयावत्पदार्थास्तद्विकारहारकाः ।
६७
 
वाशानिशा क्षुद्राऽमृत मुण्डिकपोताः शठीकुण्डलिपुनर्णवा भार्ङिमसि कोकिलाक्षब्राह्मीझरस्येवरुदमण्डूकपर्ण्यर्कालर्कार्तवतपस्विनी भृङ्गी सुवर्चलबिल्व

काश्मीरतक्कारिपाटलांशुमती स्थिरग्रन्थि चव्य चित्रकशुण्ठिपच्यातकराजमरि[१]शृङ्गि धात्रि विभीतकैला लवङ्गपत्रकनागकेसर धन्वयासतुषगन्धवारिजीरका

दिप्यकाः चूर्णक्वाथतैललेह्यविकाराः विकारभूताग्नेयश्वासकासरक्तप्रकोपहारकः ।
६८
 
वह्निभूताधिकद्रव्यादनाजीर्णजन्यामपित्तविषक्रिमिगतसिराविकारा हिध्मामयाः ।
६९
 
निवर्तकाम्बुभूताधिकगुणोपलम्भकयावत्पदार्थाः तद्विकारहारकाः ।
७०
 
कपित्थकणा मधु लवण रसोन दशमूलक्षीरसिद्धपुनर्णवानिर्गुण्डिबलावर्युत्पल पित्तवराकुष्ठापूरित कटुकचव्याश्वगन्धसुवर्चलैः सिद्धःक्वाथोहिध्मारोगनिवर्तकः ।
७१
 
यद्धातुविरुद्धान्योन्यद्रव्यादनाजीर्णजन्यामपित्त विषकिमिग्रस्तसिराविकारकारकद्रव्यविरुद्धान्यद्रव्यादनं यावद्धातुपोषकैकभेषजम् ।
७२
 


  1. पथ्यातृणराजमरिच--Dr.B.S.