पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३३७

पुटमेतत् सुपुष्टितम्
305
पञ्चदशः प्रश्नः
दशमूललवङ्गदारुभार्ङ्गिचाशा[१]वृश्चिकघनधन्वयासबलाकुरु[२]चककोल मदमुसलि हरिद्रा[३]नेताश्वगन्ध जीरकरास्ना द्राक्षाशृङ्गिस्थिरापर्णिभिरुजिमति(?)गोक्षुरचन्दनोत्पलयष्टिकशेरु [४]कपातातिविषोशीरवालुक[५]हेष्मरकाकनासा कुष्ठमञ्जिष्ठालाका काकोल्यका बृहस्पति

कुण्डल्यर्कामृतावन्ति विलङ्गभार्ङ्गिवत्सकखदिरासन

निम्बशिग्रुकरञ्ज शतबिल्वराजवृक्ष भल्लातकब्रह्मगुलूचीघृष्टिवति(?) विदारि विभीतक शिरीष पौष्करदार्वीकरकाकुष्ठ[६]....बीजक्षारक[७]पिताप्यदीप्यकजाजी तारामिशिगुग्गुलुलाक्षाकटुकादि शाला पुष्पधान्याककूष्माण्ड सौकुमार्याश्वपर्णाः क्वाथघृततैललेह्य विकाररूपा द्विभर्जन सप्तधातुकार्श्यकारकामयघातकाः ।
७३
 
पटोलादि पञ्चदशत्रयोदशद्रव्यं यथायोगं चूर्णीकृतं रक्तपित्तामयविनाशकम् ।
७४
 
द्वादशत्रयोदशार्थाः यथायोगं क्वाथोपयोग्या रक्तपित्तामयहारकाः ।
७५
 
तद्वत्तैलघृतलेह्यादि मधुसितायुतद्रव्यं रक्तामयविघातकम् ।
७६
 
वाशादिपञ्चदश त्रयोदशाष्टादशार्थाः यथायोगं सूक्ष्मचूर्णभूताः समधु श्वासकासक्षयविकारघातकाः ।
७७
 
अष्टनवदशैकादशत्रयोदशद्रव्यं यथायोगं क्वाथोपयोग योग्यं श्वासकासक्षयहरम्[८]
७८
 


 AYURVEDA
39
 
  1. यासा--Dr. B.S.
  2. कुरुवक--Dr.B.S.
  3. वल्ला--A.
  4. कपिता--Dr. B.S.
  5. हेष्कर--A
  6. करककुष्ठ--Dr. B.S.
  7. दार्वीकनकाह्वयकान्तिकुटजक्षारक--A.
  8. अष्टेत्यादि हरमित्यन्तं A. कोशे न दृश्यते ।