[१]योग्यैस्तच्च निवर्तयेत् ॥ ७ ॥
अभिघातामयजन्यरुङ्निवर्तकरेचकोपयोगिद्रव्यरसैः भाव्यं यत् तद्योग्यमित्यर्थः । यावदभिघातामयस्तच्छब्दार्थः । तं निवर्तकद्रव्येण रेचयेदिति । अत्र सूत्रवचनं—-
आमदोषं महाघोरं वर्जयेद्विषसंज्ञितम् । |
ननु इन्द्रियाणां रोगहेतुकत्वं प्रतिपादयितुं इन्द्रियातिलालनातिपीडनाद्भवतीति यदुक्तं तन्न रोचते । अतिमात्रभोजनमामहेतुकं भवति । आमसंग्रह एव सर्वरोगकारणम् । आमनिवर्तकत्वं युक्तमित्यस्वरसादाह-- अनामेति ।
अनामपालनं कुर्यात् ॥ ८ ॥
यस्मादामसंग्रहाभावस्यैव रोगाभावहेतुकसामग्रीत्वं तस्मादनामपालनं प्रत्यहं विधिरिति । आमं पालयतीत्यामपालनं, आमपालनं न भवतीत्यनामपालनं कार्यमित्यर्थः । अत्र अनामपालनकर्मकरणस्य हेतुवचनं सुत्रे प्रतिभातम् ।
मात्राशी सर्वकालं स्यान्मात्रा ह्यग्नेः प्रवर्तिका । |
ननु ज्वरादीनामप्रवर्तकसामग्री जठराग्निप्रवर्तकसामग्री । तस्मादनामपालनमप्रयोजकं स्यादित्यत आह-- आममिति ।
आमं हि सर्वरोगाणाम् ॥ ९ ॥
आममेव कारणमिति, हिशब्दः प्रसिद्धिवाचकः । अत्र सूत्रवचनम्--