पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/४२

पुटमेतत् सुपुष्टितम्
10
आयुर्वेदसूत्रे

 अशरीरी नान्नमत्ति ॥ २२ ॥

 कर्मफलयोः कार्यकारणत्वं नियमेन अन्नादनत्वम् । स्वकर्मानुकूलफलं लभ्यते । तच्छरीरिणः स फलं प्रयच्छतीति भावः । अहरहर्मनुष्या अशनमिच्छन्ति । प्रत्यहमशनार्थं लोके तत्फलोपयोगि कर्म चेत्कृतं तत्र फलाभावो न दश्यते । तत्रापि शरीरमस्ति । तस्मात् कर्मफलयोः कार्यकारणभावो नास्तीत्याह नेति ।

 [१]न केवलं शरीरं भोगयोग्यमात्मनो योगात् ॥ २३ ॥

 प्रथमतः शरीरोत्पत्तिकालः तज्जन्मान्तरसंस्कारादेव बालकादीनां स्तन्यपानादिफलं प्रयच्छतीत्यर्थः ।

 ननु बालकादीनामपि शरीरमस्ति, तत्र कर्म न कृतं, तेषामयोग्यत्वात् । स्तन्यपानादिफलं मात्रा दीयते । तस्मात्कर्मफलयोः कार्यकारणभावो वक्तुं न शक्यत इत्यत आह-- भोगयोग्यमिति । तदानीं दृष्टकर्माभावेऽपि जन्मान्तरकर्मकरणं कल्प्यते, शरीरवत्त्वादात्मनः । शरीरधारणस्योचितत्वादेव बालकादीनां स्तन्यपानादिकं मात्रा दीयते इति चेन्न । शरीरधारणादीनां जन्मान्तरकर्महेतुफलत्वं कल्प्यते । आत्मनश्शरीरवत्त्वात् आत्मनश्शरीरधारणस्योचितत्वात् आत्मसंयोगकारणभूतस्य शरीरिणो भोगायतनत्वं जीवस्य प्रतीतम् । तस्माच्छरीराधिष्ठानयोग्यत्वं नान्यस्येत्यत आह-- अजाविति ।

 अजौ ह्यधिष्ठितौ ॥ २४ ॥


  1. अहरहर्मनुष्या अशनमिच्छन्ति इत्यधिकपाठः.