पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/५३

पुटमेतत् सुपुष्टितम्
21
प्रथमप्रश्नः

[१]पित्तं पञ्चात्मकं तत्र पक्वामाशयमध्यगम् ॥
पञ्चभूतात्मकत्वेऽपि यत्तैजसगुणोदयात् ॥

 ननु पाचकपित्तं न सारकिट्टतया पृथग्विभज्य अन्नमात्रं पचति । दोषा दुष्टान्सन्तः धातून्दूषयन्ति । तेनावश्यं दोषपचनमपि कर्तव्यम् । तत्र वचनं--

आहारं पचति शिखी दोषानाहरवर्जितान्पचति ।
दोषक्षये च धातून्पचति हि धातुक्षयेऽपि च प्राणान् ॥

 एतद्वचनानुसारेण पाचकोपकारकत्वेन जठरानल एव प्रतिभाति न तत्पित्तमित्यस्वरसादाह— दोषेति ।

 दोषधातुमलोष्मजं तथा ॥ ४९ ॥

 धातुदोषान्मलोष्मजान् पित्ततद्विकारं विभज्य पचतीत्यर्थः । ननु दोषपचनं रोगनिवृत्तिकारणम् । पाचकपित्तेन आमान्तलङ्घनेन संशोष्य दोषस्थितविकारान्पचति । तत्र अनिलानलात्मककुण्डलिताभ्यां जातोष्मैव पाचकपित्तमिति व्यपदेशः । अन्यथा शुद्धानलस्यैवेति नाशङ्कनीयम् । तद्द्वंद्वं दोषे हृते तद्विपरीतगुणान्प्रयच्छतीत्याशयवानाह-- ग्रहणीति ।

 ग्रहणीकलाऽऽयुस्तेजांसि दधाति ॥ ५० ॥

 बाह्यस्थितपदार्थानां गुणान्सङ्गृह्य दोषधातुस्थितदुर्गुणान्निगृह्य निग्रहं कृत्वा स्वार्जितगुणानुग्रहं कर्तुं समर्थं सत् पाचकपित्तम् । निग्रहानुग्रहयोः पाचकपित्तस्यैव समर्थत्वात् । पित्तकलायाः ग्रहणीपदं विशेषितम् । सा कला आयुस्तेजांसि दधाति । अत्र शारीरवचनं--

अन्नभौतिकधात्वग्निकर्मेति परिभाषितम् ।
अन्नस्य पक्ता सर्वेषां पक्तॄणामधिको मतः ॥


  1. अष्टाङ्गसूत्रं XII--10