पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/६०

पुटमेतत् सुपुष्टितम्
28
आयुर्वेदसूत्रे

दिनानन्तरं विमुच्यते । पवनपित्तपवनकपद्वन्द्वजानां दश द्वादश दिनानि अवधिः । कफपित्तज्वरस्य दिनमवधिः । पवनपित्तपवनकफयोः दशदिनान्यवधिः । तावन्मात्रेण ज्वरो निवर्तते । रसादीनां धात्वाकारं चेत् निवृत्तिर्भवति । रसादयो विरसास्सन्तः धातुचराश्चेत् पूर्वोक्तकालाननतिक्रम्य शरीरं विमुञ्चन्तीत्यर्थः ।

एवं--

 पवनकफविकारहेतुकरसविरसयाजाताजीर्णजन्यामयमांसमेदोधातुचर उभयलक्षणसहितः पवनकफविकारजातज्वरः ॥ ५७ ॥

 एतस्यापि पूर्वोक्तरीत्या व्याख्यानं कर्तव्यमिति । द्वन्द्वोदोषान्तरमाह-- कफपित्तेति ।

 कफपित्तविकारहेतुकरसविरसजाताजीर्णजन्यामयास्थिमज्जाधातुचराद्यदोषश्चोभयलक्षणयुक्तोरोगः कफपित्तविकारजातज्वरः ॥ ५८ ॥

तत्तत्कालहेतुकविकारा भवन्तीत्यर्थः ।

 ननु अष्टविधज्वराणां सङ्ख्यापूरणं, दोषत्रयोत्पादितज्वरास्त्रयः, तत्तद्द्वन्द्वदोषजातज्वरास्त्रयः । केवलाजीर्णजातज्वर एकः । सर्वेऽपि ज्वरा रसविरसजाताजीर्णजन्या एव । अजीणाभावज्वराभावयोः कार्यकारणभावो वक्तुं शक्यते । अजीर्णभावस्य च ज्वरस्य च व्याप्तेर्दृष्टत्वात् । “नाजीर्णेन विना ज्वरः" इति नियामकशास्त्रस्य विद्यमानत्वात् । तद्व्यतिरेकेण आगन्तुकज्वरा