पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/६१

पुटमेतत् सुपुष्टितम्
29
प्रथमप्रश्नः

भावत्वेन तेन साकं अष्टविधप्रकारत्वं नोपपद्यत इत्यस्वरसादाह-- मन इति ।

 मनःकामभयभूताभिघातकालहेतूत्पन्नज्वरस्यान्तर्विदाहश्वासखासमदभ्रममूर्छाच्छर्द्यतिसारशोकक्रोधभयगुणास्तन्निवर्तकनिवर्तका आगन्तुकज्वराः ॥ ५९ ॥

 मनोऽभिघातज्वरो मानसिकज्वरः । मनोदार्ढ्यसम्पादनमेव तत्र भेषजम् । कामः-- यावत्प्रीतिविषयकमनोभावहेतूत्पन्नज्वरः । यावदर्थानभिभूततदन्यानुभवनित्यज्ञानविषयविपरीतज्ञानजन्यज्वरो भयजातज्वरः । एवं भूतज्वरस्य अभिघातज्वरत्वम् । ते कालस्वभावजातज्वराः एव । तादृशज्वरा बहवस्सन्ति । तस्मादागन्तुकज्वरस्यापि सन्निधानपूर्वकत्वादष्टसङ्ख्यापूरणं सूत्रेण कृतमित्यर्थः । तत्र निदानवचनं--

वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात् ।
वैकृतोऽन्यस्स दुस्साध्यः प्रायश्च प्राकृतोऽनिलात् ॥
वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम् ।
कुर्यात्पित्तं च शरदि तस्य चानुवलं कफः ॥
तत्प्रकृत्या विसर्गाच्च तत्र नानशनाद्भयम् ।
कफो वसन्ते तमपि वातपित्तं भवेदनु ॥
बलवत्स्वल्पदोषेषु ज्वरस्साध्योऽनुपद्रवः ।
सर्वथा विकृतिज्ञाने प्रागसाध्य उदाहृतः ॥[१]


  1. अष्टाङ्गनिदानं II 50-53.