इत्यष्टविधज्वरलक्षणानि व्यपदिष्टानीत्यर्थः । श्लेष्मपित्तादिद्वन्द्वज्वररूपदोषाणां एतद्धेतुभूतविरसजन्यरसा रोगा अस्थिमज्जाधातुपर्यन्तं उक्तदोषैः साकं दृढतरसञ्चारेण वधोत्पादकलक्षणसामग्रीसहितैः दोषाः प्राणहरणं कर्तुं योग्या भवन्तीत्यर्थः । तत्र ग्रहणी यदा अबला भवति तदा रसाः पाके विरसा भूत्वा तत्तद्धेतुकतत्तद्रोगान् कुर्युः । कलाबलाभावकार्यहेत्वनिमित्तकार्यकारणमेव तत्र भेषजम् । आदोषपचनपर्यन्तं लङ्घनं कार्यमिति आमहेतुककार्याभावहेतुजन्यामयानां आमाभावपरिपालनं निवर्तकमिति नोपद्यते आमहेतुककार्यभावात् । अत्र कोऽयं नियामक इत्यस्वरसादाह-- पवनेति ।
पवनाद्यप्रकोपादग्निबलं पोषयन्क्रियाक्रमः ॥ ६० ॥
निर्वर्तकैरौषधाद्यैः वातपित्तकफा अप्रकुपिताः भवन्ति । तैरग्निबलं पोषयन् यावत्कर्म विधीयते, स एव क्रिया क्रमः ।
लङ्घनैः क्षपिते दोषे दीप्तेऽग्नौ लाघवे सति । |
इति वचनम् । अत्र दोषप्रकोपकार्याभावकर्मकरणं च अग्निप्रज्वलनकार्यपरिपालनं च क्रियाक्रमो भवति ।
यदुक्तं तदेव प्रतिपादयति-- पथ्येति ।
पथ्याद्दोषे क्षीणेऽग्निबले जाते क्षुत्त्यड्रुचिश्शक्तिः [२]बलकालविभागझोवमनविरेकाच्छ्वासखासहृद्रोगविषमज्वरातिसारेभ्योऽभयात्सुखीभवेत् ॥ ६१ ॥