पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/६५

पुटमेतत् सुपुष्टितम्
33
प्रथमप्रश्नः

 ननु मन्दानलप्रज्वलनं जठरानलेन भवितव्यम् । अत्र बहिरनलस्यायोग्यत्वात् समानानिलेन भवितव्यमभिव्यञ्जनमिति यत्तत्केवलं निवर्तकद्रव्यादनं विना न समर्थोऽयमिति मत्वा निवर्तकद्रव्यमाह-- द्रवेति ।

 द्रवद्रव्यैर्विभजन्कालादन्नं प्राणानिलेन कोष्ठं गतं समानानिलेन तत्स्था कला ज्वलयन्ती पचति ॥ ६५ ॥

 वस्तुतस्तु द्रवद्रव्यैस्साकं योऽन्नमत्ति स व्यञ्जानानि द्रवीभूतानि कृत्वा भुनक्ति । तद्भुक्तान्नं अग्निसमीपस्थितसमानानिलेन पक्तुं प्रज्वलितेन सारकिट्टतया विभजतान्नं हृद्गतं सत् प्राणानिलेन आहारकोष्ठं गतं करोति, तदनन्तरं नाभिप्रदेशगतं कारयति । तस्मात्सा कला अतिप्रज्वलिता सती धातुपोषकगुणं न धत्ते । प्रत्युत धातुशोषणं च करोति । ग्रहणीकला अतिप्रज्वलिता सती धातुदूषणं करोति । तस्मात्सा कला दाहावशेषं पचति । धातुक्षयकारिकाऽपि भवति । एवमाशयांश्च पचेत् । तदप्यजीर्णमिति व्यवहरति । तेन धातुपोषकत्वस्य पतितत्वात् तत्पचनं अनग्निकृतीमिति यत्तन्न रोचत इत्यर्थः । अत्र वचनं--

चयादीन् यान्ति सद्योऽपि दोषाः कायेऽपि वा न वा ।
व्याप्नोति सहसा देहमापादतलमस्तकम् ॥
निवर्तते तु कुपितो मलोऽल्पाल्पं जलौघवत् ।
नानारूपैरसंख्येयैः विकाराः कुपिता मलाः ।
नापयन्ति तनुं तस्मात्तद्धेत्वाकृति साधनम् ॥[१]

 AYURVEDA.
5
 


  1. अष्टाङ्ग सूत्रम् XII-- 28-30