पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/६७

पुटमेतत् सुपुष्टितम्
35
प्रथमप्रश्नः

मपालनत्वम् । तस्यारोगहेतुकत्वात् । 'रिक्ते वायुः प्रकुप्यते' इत्येतत्सूत्रं व्यर्थं स्यात् । ग्रहणीकलायाः समानानिलसमीपस्थितत्वेन ज्वलनहेतुकसामग्रीसत्वात् । 'अनलोऽल्पो भवति' इति सूत्रमपि व्यर्थं स्यादिति चेत्, पञ्चप्राणोपकारकान्नग्रहणाद्दोषोपकारकाः । मलमूत्राधिकमपि विशेषतः । आशये रिक्ते सति पवनप्रकोपहेतुत्वं यत्र दृश्यते तत्रायं नियमः-- मलमूत्रनिरोधनाज्जातामये दृष्टे सति तन्निवर्तकद्रव्येण रेचिते तेन रिक्तीकृताशये यत्र पवनप्रकोपहेतुत्वं तत्र तद्दृश्यत इति तात्पर्यम्, तस्य दृष्टत्वात् । आमाशयस्य रिक्ततया रूक्षता वातस्य । रूक्षगुणत्वं प्रथमत उपात्तं विरुद्धरसादनाज्जाताजीर्णगुणहितामयेन सारकिट्टतया अविभज्य पचनात् मलमूत्रादिकं द्रवीभूतमप्रकृतमिति प्रतिभाति । तत्र सिद्धकलायाः अज्वलितत्वाज्जातानलपचनात् जातामये दृष्टे सति तद्विरुद्धचलकृताशयस्य रिक्ततया दोषप्रकोपहेतुकत्वं स्यात् । तस्मात् 'रिक्ते वायुः प्रकुप्यते' इति सूत्रं सम्यक्प्रतिपादितमित्यर्थः । अजीर्णजातामये आमाशयरिक्तत्वाज्जातानलप्रकोपस्य च सन्धुक्षणावश्यकत्वेन आदौ पवनप्रकोपरहितकार्यस्य कारणीभूतरसद्रव्यं व्याचष्टे-- मधुरीति ।

 मधुरीभूताभ्यवहृतान्नं पवनप्रकोपहारकम् ॥ ६८ ॥

 तत्स्वभावसिद्धमधुररसेन तत्तद्द्रव्यकर्मोपाधिना अनिलप्रकोपाभावकार्यस्य यन्निवर्तकं मधुरीभूतं कृत्वा तावद्भुक्तान्नं पवनप्रकोपं हरतीति हारकम् । आमाशयरिक्तताकार्ये तत्स्थानप्रकोपे सति यावद्भुक्तान्नं पक्तुं अग्नेरनवकाशात् तन्निवर्तक-