पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/७१

पुटमेतत् सुपुष्टितम्
39
प्रथमप्रश्नः

रित्वं च वक्तव्यम् । तदनन्तरमम्लरसस्य कार्यकारित्वं वक्तव्यम् । कटुरसस्यापि तथा कार्यकारित्वभजनात् । तस्मात्स्वाद्वम्लकटुरसानामेव दोषसाम्यं प्रतिपादितम्, नैव रोगमात्रनिवर्तकसामग्री प्रातिपादिता इति । तत्र सूत्रवचनम् ।

रोगस्तु दोषवैषम्यं दोषसाम्यमरोगता[१]

एतद्वचनमत्र प्रमाणमिति त्रयाणां दोषाणां समता या सामग्री दृश्यते सा सामग्री त्रिभिरेव कार्या । तथा सति तदितररसानां का गतिरित्याशयं मनसि निधाय तच्चिन्त्यमित्युक्तम् । तत्र शारीरवचनं--

आदौ षड्रसमुत्पन्नं मधुरीभूतमीरयेत् ।
फेनीभूतं कफं यातं विदाहादम्लतां ततः ॥
पित्तमामाशयात् कुर्याच्च्यवमानं च्युतं पुनः ।
अग्निना शोषितं पक्वं पिण्डितं कटुमारुतम् ॥[२]

एकरसवद्द्रव्यमेव पाके त्रिधा विभजनं करोतीत्यर्थः । सर्वधातुपचनं हरतां वातपित्तकफदोषाणां अविकारकगतिं प्रापयितुं तत्र भोज्यद्रव्यादनं, तेषां बहुरसात्मकत्वात् । ते रसाः तत्तद्विधिचोदितफलानि प्रयच्छन्तीति यान् रसान् यो भोक्तमुपलभते तेन उपलभ्यमानरसं तदनुभववशात् फलं प्रदीयते इति रसान् विद्यात् । तस्माद्बहुरसद्रव्यादनादेव तत्तद्विधिचोदितफलं प्राप्यत इत्यस्वरसादाह-- स्वाद्विति ।

 स्वाद्वम्लकटुकाः पाक्या रसा यथा समदोषा यथायथं योगफलदायकाः ॥ ७२ ॥

 सर्वे रसाः पाकेन स्वाद्वम्लकटुका भूत्वा यथार्थस्थिता रसा एव तत्तत्फलदायका इति । समाधत्ते-- य इति ।


  1. अष्टाङ्ग सूत्रं. I. 19.
  2. अष्टाङ्ग. शारीर. III. 57--58.