पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/७३

पुटमेतत् सुपुष्टितम्
41
प्रथमप्रश्नः

रसाद्रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च ।
अस्थ्नो मज्जा ततश्शुक्रं शुक्राद्गर्भः प्रजायते ॥[१]

 एवं सप्तधातूनां रसादीनां षण्णां च कार्यकारणभावोऽस्तीति ज्ञाप्यते । रसवद्द्रव्यं रक्तधातुजनकं भवतु, कषायरसो रक्तधातुजनक इत्यत्र कोऽयं नियमः ? दोषादीनामरोगकार्यकारणत्वं प्रतिपादितम् । तेषां परंपरया धातुपोषणद्वारा धातुजनकत्वं च विवक्षितम् । दोषधातुविकाराभावस्य रसादीनां च कार्यकारणभावे ज्ञाते सति देहारोग्यकार्यस्य रसानामेव सत्त्वे सुप्रसिद्धिरिति भावः । कषायरसान्नादनात् रसासृग्धातुरेधते । ऊषणरसो मांसधातुप्रवर्धकरक्तधातून्सम्पोष्य हेतुर्भवतीत्यर्थः ।[२] रसाद्रक्तं, तस्मान्मासं मांसान्मेदः, मेदसोस्थि, अस्थ्नो मज्जा, मज्जातश्शुक्लं शुक्लाद्गर्भो भवति । अब्भूतोद्भवस्वादुरसश्शुक्लधातुपोषकः । तद्विरसस्तन्नाशको भवति । पृथिव्युद्भवो रसो मज्जाधातुपोषको भवति । तद्विरसस्तन्नाशको भवति । तेजोभूतोद्भवोषणरसः अस्थिधातुपोषकः । तद्विरसस्तन्नाशको भवति । लवणमूषणरसभेदः । पवनभूतोद्भवस्तिक्तरसः मांसमेदोभिवर्धकः, मेदसोऽपि मांसरूपत्वात् अभेदोऽत्र विवक्षितः । गगनभूतोद्भवकषायरसः रसासृग्धातुप्रदः रसासृजोरेकधातुरूपत्वात् । तस्माच्छरीरं पाञ्चभौतिकमिति व्यपदिशति-- पञ्चेति ।

 पञ्चभूतात्मकं शरीरम् ॥ ७५ ॥

 AYURVEDA.
6
 


  1. अष्टाङ्गशारीर. III.--62.
  2. क्वचित्सूत्रपाठे रसाद्रक्तं इत्यनन्तरं 'रक्तान्मासं, मासादस्थि, अस्थ्नो मज्जा, मज्जातशुक्लं, शुक्लाद्गर्भो भवाति' इत्यधिकं दृश्यते। तच्चैतद्भाष्यानुगुणम्.