पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/७४

पुटमेतत् सुपुष्टितम्
42
आयुर्वेदसूत्रे

 पृथग्व्यवस्थिताः पञ्चभूताः अस्मिन् शरीरे नोपपद्यन्ते देहस्य दोषधातुमलाशयात्मकत्वात् । एकैकस्य महाद्रव्यत्वात् संसृष्टेरभावात् । एकैकस्य च नांशतस्संसृष्टिः । तेषां विभजनं कर्तुमशक्यत्वात् । एकैकशरीरे तत्तल्लक्षणसहितद्रव्योपलब्धेरभावात् । तस्मात्पञ्चभूतात्मकं शरीरमिति वचनं न क्षोदक्षममित्याशयं मनसि निधाय आदौ गगनभूतस्य तत्संसृष्टिलक्षणं तत्कार्यं च व्यपदिशति-- श्रोत्रेति ।

 श्रोत्रान्तस्स्थितशब्दगुणकबोधकसिराभ्यां श्रूयते ॥ ७६ ॥

 अस्यार्थः-- अन्तस्तिष्ठत इत्यन्तस्थितौ । तयोरन्तस्स्थितयोः शब्दो गुणो ययोस्तौ शब्दगुणकौ । बहुव्रीहौ कप्रत्ययः । उपस्थितयोग्यविषयस्य बोधिकाभ्यां सिराभ्यां श्रूयते । तत्र शारीरवचनम्--

षडङ्गमङ्गं प्रत्यङ्गं तस्याक्षिहृदयादिकम् ।
शब्दः स्पर्शश्च रूपं च रसो गन्धः क्रमाद्गुणाः ।
खानिलाग्न्यब्भुवामेकगुणवृद्ध्यन्वयः परे ॥[१]

 एकादशगुणवद्द्रव्यं शरीरेऽन्वेति । गन्धवद्गुणभूतो नासिकायामुपलभ्यते । अब्भूतगुणलक्षणस्य जिह्वायामुपलब्धिः । तैजसगुणवद्द्रव्यं अक्ष्णोः प्रतिभाति । तत्र रूपोपलंभकज्ञानं प्रमाणम् । पवनद्रव्यं स्पर्शगुणम् । शब्दगुणवदाकाशद्रव्यम् । कर्णशष्कुल्यवच्छिन्नाकाशे शब्दोपलम्भकत्वात् । तस्मात्पञ्चभूतात्मकं शरीरमिति वाक्यं सुप्रसिद्धम् । शब्दगुणवानाकाश इत्याकाशस्य

  1. अष्टाङ्गशारीर. III.-- 1-2