पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/८०

पुटमेतत् सुपुष्टितम्
48
आयुर्वेदसूत्रे

बीजात्मकैर्महाभूतैस्सूक्ष्मैस्सत्वानुगैश्च सः ।
मातुश्चाहाररसजैः क्रमात्कुक्षौ विवर्धते[१]

 ननु मातृधातवश्चत्वारः । पितृजाश्च त्रयः । तावन्मात्रेण शरीरोत्पत्तिः प्रतिपादिता । इतः परं सत्वरजस्तमोगुणानां कस्य द्रव्यस्य गुणित्वम्? । तथासति गुणगुणिनोः कार्यकारणभावो वक्तुं शक्यते । तेषां गुणिरूपद्रव्यादर्शनात् न गुणिनमन्तरेण गुणास्सन्ति । तस्मात् सत्वरजस्तमोगुणात्मकं शरीरमिति सूत्रस्यैकदेशं व्यर्थं स्यादित्यस्वरसादाह-- आयुरिति ।

 आयुरारोग्यतेजोबलशुद्धादि वपुस्सत्वगुणोत्पादकम् ॥ ८७ ॥

 सत्वगुणस्यैतादृशलक्षणानि सन्तीति प्रतिपादितम् । ननु गुणाश्रयो द्रव्यमिति गुणाश्रयत्वं द्रव्यस्य । पञ्चभूतानां गुणाः । इति ते तत्तद्रव्यनिष्ठास्सन्ति । अतस्ते पृथग्व्यवस्थिताः । अत एतेषां सत्वरजस्तमोगुणानामेते एतस्य द्रव्यस्येति व्यपदिशेत् । तेषां गन्धादीनां गन्धरसरूपस्पर्शशब्दाः पञ्चभूतानां एकैकशोऽवच्छेदकाः । गुणत्रयस्य तेषां नावच्छेदकत्वात्, गुणो गुणिनमन्तरेण स्थातुं नोपपद्यत इत्यस्वरसान्तरादाह-- आयुरिति ।

 आयुश्च आरोग्यं च तेजश्च बलं चैतानि स्वरूपाणि वपुष आविर्भवन्तीति कारणान्यथानुपपत्त्या तत्तत्कार्यकल्पनस्य विधेयत्वात् । अत्र शारीरवचनं--

तेजो यथार्करश्मीनां स्फटिकेन तिरस्कृतम् ।
नैधनं दृश्यते गच्छत् सत्वो गर्भाशयं तथा ।[२]


  1. अष्टाङ्गशारीर. I--2
  2. अष्टाङ्गशारीर I--3