पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/८५

पुटमेतत् सुपुष्टितम्
53
द्वितीयप्रश्नः

ष्ठीवनक्षवधूद्गारनिश्श्वासान्नप्रवेशकृत् ।
उरस्स्थानमुदानस्य नासानाभिगलांश्चरेत् ।
वाक्प्रवृत्तिप्रयत्नौजोबलवर्णप्रतिक्रियः ॥[१]

 इति । एतद्वचनानुसारेण सर्वशरीरव्यापकत्वमनिलस्य । तस्मात्स्वादुरसः अनिलकोपं हरतीत्यर्थः ॥

 ननु एतादृशाशयानां सर्वशरीरान्तस्स्थितत्वस्य सार्वजनीनत्वेन तत्तत्कार्योपलम्भकत्वं यथाविधि चोदितमिति सप्ताशयास्सप्तधातुमन्तः सर्वसाधारणत्वात् । तथा सति एष्वाशयेषु प्रजाजननदेशं निर्णीतुमशक्यत्वात्, किं च सप्तत्वक्सिराधात्वाशयाभिवर्धनं पञ्चपाचकपित्तानिलजातस्वादुरसोऽनिलप्रकोपमपहरतु । तस्य रोगारोगैककारणत्वं सर्वशरीराणां सुप्रसिद्धमिति तात्पर्यं मनसि निधाय प्रजाजननहेतुप्रदेशं विवृणोति-- अष्टेति ।

 अष्टमो गर्भाशयः स्त्रीणाम् ॥ ४ ॥

 प्रजाजननहेतुकाशयः स्त्रीणामेव सम्भाव्य इत्यर्थः । तत्र शारीरवचनं--

गर्भाशयोऽष्टमः स्त्रीणां पित्तपक्वाशयान्तरे ॥[२]

 सप्ताशयातिरिक्तं पित्तपक्वाशयान्तरं नेतरेषु सम्भावितमिति गर्भाधानहेतुकत्वं स्त्रीणामेव सम्भावितत्वात् । अत एव प्रथमतः स्त्रीणां नामोच्चारणानन्तरं पुंनामोच्चारणमिति सकलशास्त्रेषु श्रेष्ठक्रमोऽस्तीति व्यपदेशितम् । आदौ स्त्रीपुरुषयोर्धातुरेव योन्यां प्रविश्य जनयति । तथा सति धातुमेलनमेव पिण्डं भवेत् । यावत्कारणं तावत्कार्यमिति न्यायात् । इदानीमङ्गजननका

  1. अष्टाङ्गसूत्रस्थान. XII. 4--5.
  2. अष्टाङ्गशारीर. III. 11.