पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/८६

पुटमेतत् सुपुष्टितम्
54
आयुर्वेदसूत्रे

र्यदर्शनस्य हेत्वभावो दृश्यते । कारणेन विना कथं कार्योत्पत्तिरित्यस्वरसादाह-- स्वमिति ।

 स्वं स्वं स्वोष्मणा स्रवद्रसात्मं चौजः । स्वं स्वं स्वस्य स्वयमेव हेतुर्भवति ॥ ५ ॥

 स्वाङ्गानि स्वस्मिन्नेव प्रजाः प्रजायन्ते, अन्यथा तदन्वयव्यतिरेकाभ्यां सुखदुःखे कथमुपपद्येते । अन्यजननस्य तदन्वयव्यतिरेके सति सुखदुःखानुभवोऽस्तीत्यत इतरजनने स्वशरीरमेव कारणमिति । तत्र काव्यवचनं--

आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना ।
आत्मना कृतिना च त्वमात्मनैव प्रलीयसे ॥

 श्रुतिवचनं--

अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे ।
आत्मा वै पुत्रनामासि स जीव शरदां शतम् ॥

 गर्भाशयगतोष्मणा मातुः पित्तसारः स्त्रवति । तत्सारजन्यस्सारः शिरउत्पादको भवति । तद्रसात्मकं चौजो भवति । गर्भाशयगतोष्मणा मातुः पाणिः स्रवति । तत्सारजन्यो रसः पाण्युत्पादको भवति । गर्भाशयगतोष्मणा मातुः पादसारस्स्रवति । तत्सारजन्यसारः पादोत्पादको भवति । एवं पार्श्वौ च । पृष्ठोदरजङ्घशिश्नोपस्थपाय्वङ्गादीनि गर्भाशयगतोष्मणा मातुरङ्गानि एषु स्रवन्ति । तत्सारजन्यसाराणि तदुत्पादकानि भवन्ति । मातुराहाररसाहारास्तद्व्यतिरिक्ताङ्गाभिवर्धकाः । तान्यङ्गानि रक्तभूतानि सन्ति । तत्तदङ्गेषु वायुः प्रकुप्यते । तत्पवनकोपनिवृत्त्यर्थं स्वादुरसवद्द्रव्यम्, तन्निवर्तनद्वारा भेषजं स्वादुरसमश्नीयात् ॥