पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/९९

पुटमेतत् सुपुष्टितम्
67
द्वितीयप्रश्नः

पुटघट्टनेन एतादृशवर्णनिमित्तमेतत् इति तज्जनकहेतुभूतकारणकर्मणां तज्जन्यशब्दानां व्याप्तिं गृहीत्वा तत्तद्वर्णजनककर्म करोतीति तत्तत्कारणानुगुणकार्यमेव उत्पद्यते । सरन्ध्रकाभ्यन्तरधरास्त्रिंशत्सिरावृतास्सन्तः हस्ताङ्गुष्ठताडनेन प्रेरिता रणत्सप्तस्वरादिभेदाः पृथक्पृथग्विभिन्नास्सन्तः श्रुतिमण्डलाः स्वरव्यक्तोत्तरोत्तरतारतम्यं भूत्वा हीनमध्यमोत्तमाः कर्मकरणात्तत्तदनुस्वरितस्वराश्श्रूयन्ते । तद्वदेव शारीरयन्त्रं विज्ञाय तत्तद्वर्णानां व्याप्तिं गृहीत्वा तत्तद्वर्णात्मकाः शब्दावच्छेदकप्रयत्नव्यापारकर्मकरणात्तत्तत्स्वराधिष्ठितवर्णात्मकाश्शब्दाः तत्तद्धेतुभूतसिराभिः श्रूयन्त इत्याह-- सिरेति ।

 सिरास्यदोषगतिजातशब्दः कर्णयोः प्रपद्यते ॥

 ननु शब्दगुणवदाकाशमिति आकाशस्यैव शब्दजनकत्वम् । कर्णशष्कुल्यवच्छिन्नाकाश एव शब्दो भासते, नान्यत्र । ताल्वोष्ठपुटव्यापारादिकं निमित्तकारणम् । न तावत्सिराणां समवायत्वं तासां शरीरावयवाकारजनकत्वम् । ता न शब्दबोधकाः । पावकस्य दुष्टत्वेन धातुपोषकत्वे भ्रमः । तस्मात्पूर्वोक्तरीत्या सुत्रव्याख्यानं न सङ्गतमिति । अत्रोच्यते-- आकाशस्यैकत्वेन अनेकवर्णभेदजनककार्यस्य सामग्र्यभावात् । शरीरान्तस्स्थितधातुसञ्चारितवायुः अत्र न विवक्षितः, किन्तु ताल्वोष्ठपुटव्यापाराङ्गाङ्गसङघट्टनाज्जातशब्दकार्यहेतुकपवनश्शब्दजनक इति वक्तुं शक्यते । ताल्वोष्ठपुटव्यापाराङ्गाङ्गसंसर्गाज्जातपवनात् योग्यं भवतीति । यावत्कालविषयकौपाधिकपवनजातशब्दान्तरारम्भकः कदम्बमुकुळन्यायेन वा वीचीतरङ्गन्यायेन वा शब्दान्तरं जायते । तस्माद्द्रव्यसंयोगजातपवनस्य समवायकारणत्वं वक्तुं शक्यते ।