पृष्ठम्:आर्यभटीयम्.djvu/140

एतत् पृष्ठम् परिष्कृतम् अस्ति

炫霍 कालक्रियापादे [ কালাe ये' युगरविमासातिरिक्ता युगेन्दुमासास्ते² युगाधिमासा;³ । युगरविशशिमासान्तरं युगाधिमासप्रमाणमित्यर्थः:⁴ । तथा युगभूदिनोना युगशशिदिवसा युगे तिथिप्रलयाः ज्ञेयाः । युग⁵चन्द्रदिनार्कसावनान्तरं युगावमदिनानीत्यर्थः । तद्यथा-रविभगणाः खचतुष्टयरदवेदाः, 43,20,000. शशिभगणाः ‘अङ्गपुष्कररामाग्निशरशैलाद्रिसायकाः', 5,77,53,336. अनयोरन्तरं युगशशिमासाः 'अङ्गपुष्कररामाग्निरामवेदाग्निसायका:', 5,34,33,336. रविभगणा द्वादशगुणिता रविमासाः ‘खचतुष्टयाब्धिवस्वेकशराः' 5,18,40,000. एतान् शशिमासेभ्यस्त्यक्त्वा शेषा युगाधिमासाः ‘षट्त्रिकरामाग्निनवभूतेन्दव:"* 15,93,336. त्रिंशद्गुणिता युगशशिमासा युगतिथयः ‘खाष्टवियद्व्योमखखाग्निखरसेन्दवः' 16,03,00,00,80. अप्रथ भूभगणाः ‘खाम्बरेष्वद्रिरामाश्वियमाष्टतिथयो भुवः' 1,58,22,37,500. एभ्यो' युगरविभगणानपास्य शिष्टानि' रविभूदिनानि ‘व्योमशून्यशराद्रीन्दुरन्ध्राद्रयद्रिशरेन्दव:' 1,57,79,17,500. एतानि युगशशिदिवसेभ्य"स्त्यक्त्वा शिष्टा युगावमाः ‘अम्बराष्टेषुद्वयष्टशून्यशराश्विन:' 2,50,82,580. एवमेते गीतिकोक्तभगणैरेव न्यायतः प्रदशिताः । एतेषां प्रयोजनम् इष्टकालयुगगत*रवि*सावनदिनानयनम् । तच्च प्रदशर्यते-शकाब्दा 'धूसीकाल' (3179) युक्ता' द्वादशगुणिता' वर्तमानाब्दयातैः चान्द्रमासैश्चैत्रादिभिर्युताः' प्रतिराशिताश्च' कार्याः । तैस्त्रैराशिकम्-यदि युगरविमासैः युगाधिमासा लभ्यन्ते, युगयातैः कियन्त इति । लब्धगताधिमाससंयुतः' प्रतिराशितस्त्रिशद्गुणितो वर्तमानचान्द्रमासगतशुक्लप्रतिपदादितिथियुक्तः'* युगयातः"*शशिदिनः । तं प्रतिराश्य त्रैराशिकम्—यदि युगेन्दुदिनैः व्याख्या-1. C. युगे for ये 2. B. क्ताः चान्द्रमासास्ते ; C. क्ताः ते युगेऽधिमासकाः 3. B. मासकाः 4. E. प्रमाणान्तरमित्यर्थः 5. B. C. om. युग 6. D. तिथयः for भूतेन्दवः : 7. B. एतेभ्यो 8. E. om. युग T 9. E. om. शिष्टानि 10. C. D. दिनेभ्यः 11. E. om. कालयुगगत 12. D. om. रवि 13. E. युता 14. D. E. द्वादशघना 15. D. E. चान्द्रश्चत्रादिभिर्मासैर्युताः 16. B. प्रतिशरीरिताश्च ; C. प्रतिशरीरताश्च ; D. प्रतिशरीरिकाश्च, (all wr.) 17. D. युतः for संयुतः 18. D. E. तिथियुतः 19. E. कलियात