पृष्ठम्:आर्यभटीयम्.djvu/149

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः १३ ] ग्रहाणां समगतित्वम् §VB 'खयुगांशे ग्रहजवः' (गीतिका० 6) इत्यत्र स्वकक्ष्यानयनमुक्तम् । तत्रेदं त्रैराशिकम्-यदि युगभगणैराकाशकक्ष्यातुल्यानि योजनानि* प्राङ्मुखं गच्छन्ति, तदा एकेन भगणेन कियन्ति° इति । लब्धानि* कक्ष्यायोजनानि भवन्ति । तत्र बुधादिभगणेभ्यः चन्द्रभगणानां* संख्याबाहुल्यात् तैः खकक्ष्याया भागे हृते यावन्ति योजनानि लभ्यन्ते तावद्योजनपरिच्छिन्न मण्डल' इतरमण्डलेभ्योऽल्पं भवति । श्रप्रल्पत्वादेव तेषामधश्च तिष्ठति । तत्त्रस्थ'श्चाल्पेनैव कालेन एक परिवर्त' पूरयति” । शशिभगणेभ्यो"ऽल्पसंख्या शुक्रादिभगणेभ्यो महान्तो बुधभगणाः । तैः “खकक्ष्यातो लब्ध'योजनपरिच्छिन्नं बुधस्य मण्डल चान्द्रमण्डलान्महान् भवति, उपरि चावतिष्ठते' । चन्द्रकालादधिकेन कालेन तत्स्थ एक परिवर्त' पूरयति । एवं ततो महत् शुक्रस्य मण्डलम् । अत एव तयोरुपरि स्थितिः । कालश्च बुधाद् भूयान् । ततो रवेः, ततः कुजस्य, ततो गुरोः, ततश्शनेः । तन्मण्डलं महदुपरि चावतिष्ठते । महतश्च कालेन “तत्स्थ एकं परिवर्त" पूरयति । ततोऽयं सूत्रार्थः--अल्पं सर्वेभ्यो मण्डलेभ्यो'ऽल्पपरिमाणम्, ग्रत एव सर्वेषामधः स्थितम् मण्डलम्, श्रप्रल्पेन कालेन इतरैस्तुल्यगतिश्चन्द्रः पूरयति । महत्' सर्वेभ्यो मण्डलेभ्यो महापरिमाणम्, अत एव सर्वेषामुपरि स्थितं मण्डल, महता कालेन, तत्र भ्रमन् इतरतुल्यगतिः शनैश्चरः पूरयति । एवं बुधादयोऽपि व्याख्या—1. E. प्रदशितम् for उक्तम् । 2. E. योजनानां ग्रहा: for योजनानि 3. A. C. कियन्तः 4. D. मण्डलानि for लब्धानि; E. लब्घा: 5. B. च भूभगणानां (wr.) 6. A. C. fyrirqUS; D. om. HUSf 7. A. FTITUTTETT; E. om. F2FFRIVą 8. A. B. C. एतत्परिवर्त 9. B. Tigriff ; D. adds fè 10. E. एभ्यो for शशिभगणेभ्यो 11. A. B. C. om. ā 12. B, get for vet 13. A. E. यावतिष्ठते 14. A. frtf 15. E. om. ITTEet to RTfRTR:, five lines below, and has in its place Russi 16. A. fryi 17. B. Hapl. om. of USềTraît 18. A. C. D. om. महत् अर्थ०-१३