पृष्ठम्:आर्यभटीयम्.djvu/151

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः १४ ] प्रहाणा कलात्मको भिन्नगतित्वम् VV एवं* शनिकक्ष्या ‘वह्निनन्दवेदाब्धिभवेषुवसुसंख्या:, 8,51, 14,493. श्रप्रस्य द्वादशांशः तत् कक्ष्याया राशेरेकस्य योजनप्रमाणम्, ‘वेदनगवसुयमनन्दव्योममुनय:' 70,92.874 { } ], षष्टिशतत्त्रयांश एकभागे-योजनप्रमाणं ‘नन्दाश्विवेदर्तुवह्नियमाः' 2,36,429. खखषड्घनांशं* कलायोजनप्रमाणं 'व्योमाब्धिनन्दरामा:" 3940. एवमन्येषामपि कक्ष्याप्रमाणमानीय द्वादशादिभिविभज्य राश्यादियोजनमानं ज्ञेयम् * । यस्मादेवं? राशिभागादयः स्वमण्डले विभागतुल्याः, तस्माद्योजनगतेस्तुल्यत्वेऽपि राश्यादिगते'र्वैषम्यमुपपन्नम् ।। इति चतुर्दशं सूत्रम् ।। १४ । [ ग्रहकक्ष्याक्रमः | एवमुपपादित*मुपर्यधोभावक्रममार्यया स्पष्टयति भानामधः शनैश्चर सुरगुरु-भौमा-र्क-शुक्र-बुध-चन्द्राः । तेषामधश्च भूमि मॅधीभूता खमध्यस्था ॥ १५ ॥ भानाम् श्रप्रश्विन्यादिनक्षत्राणामधः क्रमेण शनैश्चरादयः स्थिताः । सर्वेषामुपरि *भकक्ष्यामण्डलम्' । तस्याधः शनेः । तस्याधो गुरोः । तस्याधः कुजस्य" । तस्याधो रवेः । तस्याधः शुक्रस्य । तस्याध्रो बुधस्य । तस्याधश्चन्द्रस्य । तेषां सर्वेषामधो भूमि: मेधीभूता मेधीतुल्या खमध्यस्था ग्राकाशमध्यस्थिता" । व्याख्या-1. E. om. एवं 2. D. E. त्रयांश (E. शो) भागस्र्यंकस्य 3. D. घनांश: ; E. घनभागः 4. E. adds : तत् त्रिशता विभज्य भागप्रमाणम् , षष्टया विभज्य कला योजनप्रमाणमवगन्तव्यम् । 5. E. tr. : एवं यस्मात् 6. E. om. Trà: 7. D. qaqfặd 8. A. B. C. om. H 9. A. B. C. om. मण्डलं 10. E. भौमस्य for कुजस्य 11. A. B. C. Hapl. om. f: [àreft...to è: qftēT:, two lines below, 12. D, मध्यस्था