पृष्ठम्:आर्यभटीयम्.djvu/183

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः ८ ] कल्पे भुवः वृद्धिहासौ ፃኳፃ स्तद्योजनं हानिर्भवति । तेन कल्पादौ पञ्चाशदधिकं योजनसहस्रं भूमेविष्कम्भः कल्पान्ते द्विपञ्चाशदधिको योजनसहस्रम् । अवान्तरे तु त्रैराशिकेनानेतव्यम् । एतच्च लम्वनादिषूपयुज्यते । इति ग्रष्टमं सूत्रम् ।। ८ ।। [ भूभ्रमणम् ] भ चक्रपरिवर्तानां भूमावध्यस्योपदेश'कारणमार्ययाऽऽह— अनुलोमगतिनौस्थः पश्यत्यचलं विलोमगं यद्वत्। श्रचलानि भानि तद्वत् समपश्चिमगानि लङ्कायाम् ॥ & ॥ नावि स्थितः पुरुषः अचलं*परं पारं प्रति नौगमनवशाद् अनुलोमं गच्छन् तदेव परं पारं विलोमगं प्रतिलोम गच्छतीव पश्यति । तथा लङ्कायां समपश्चिमगानि भानि° भूस्थान्यचलानि वस्तूनि* प्राङ्मुखं गच्छन्तीव पश्यन्ति । एवं भचक्रस्यैव' प्रत्यग्गमनम्' । न तु परमार्थतो भूमेभ्रमणमस्ति । इति नवमं सूत्रम् । ९ । [ भपञ्जरभ्रमणम् | ग्रहाद्युदयास्तमयनिमित्तभचक्रभ्रमण'मार्ययाऽऽहे उदयास्तमयनिमित्तं नित्यं प्रवहेण वायुना क्षिप्तः । लङ्कासमपश्चिमगो भपञ्जरः सग्रहो भ्रमति ।। १० ॥ ETTTTT-1. A. C. qè 2. A. C. om. 3qqaf 3. A. C., Hapl. om. of Tft 4. A. C. Hapl. om. of ąFfi 5. A. C. om. एव 6. E. adds भूमौ प्राग्गतित्वेन अध्यास्यते । 7. D. Hot for qu’T 8. E. भ्रमणहेतुमार्ययाह