पृष्ठम्:आर्यभटीयम्.djvu/190

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ፃ ቹ t; गोलपादे [ गोल० [ भचक्रे देवासुर दृश्यप्रदेशः ] ज्योतिश्चक्रे देवासुरदृश्यप्रदेशमाहदेवाः पश्यन्ति भगो लार्धमुदङ्मेरुसंस्थिताः सव्यम् । अपसव्यर्ग तथार्ध दक्षिणबडवामुखे प्रेताः ॥ १६ ॥ मेरुस्था देवा उदग्भगोलार्ध स्थलजलसन्धिस्थितानामुत्तरदिक्स्थज्योतिश्चक्रस्यार्ध भूव्यासाधॉनमेव सव्यं प्रदक्षिणं गच्छत् पश्यन्ति । स्थलजलसन्धौ स्थित्वैतदाचार्यः प्रतिपादयति । तद्वशेन दक्षिणोत्तरविभागो युज्यते । नहि मेरुबडवामुखस्थानां दिङ्नयमोऽस्ति, परितः सर्वत्र' रवेरुदयास्तमयसम्भवादिति । एतमेवार्थमपमण्डलमधिकृत्याह ब्रह्मगुप्तः-- सौम्यमपमण्डलार्ध मेषाद्य सव्यगं सदा देवाः । पश्यन्ति तुलाद्यर्धं दक्षिणमपसव्यगं दैत्याः । (ब्राह्मस्फुटसिद्धान्तः, गोलाध्यायः, 7) इति षोडश सूत्रम्। १६ । [ देवादीनां दिनप्रमाणम् ।] चक्रस्थार्कदर्शनायत्तं देवादीनां दिनप्रमाणमार्ययाऽऽह-- रविवर्षार्धं देवाः पश्यन्त्युदितं रविं तथा प्रेताः । शशिमासार्धं पितरः शशिगाः कुदिनार्धमिह मनुजाः ।। १७ ।। रवेर्वर्ष रविवर्षं, मेषादिमीनान्तरवि*भोगकालः । तदर्धं देवा श्रसुराश्च सकृदुदितं रवि पश्यन्ति । शशिगाः चन्द्रमण्डलस्थाः पितरः शशिमासार्धं सकृदुदितं रवि पश्यन्ति । इहस्था मनुजाः कुदिनार्ध भूदिवसस्यार्ध पश्यन्ति । पूर्वक्षितिजापरक्षितिजयोरन्तर्दृश्यचक्रार्धस्थं रवि पश्यन्तीत्यर्थः । तथा च ब्रह्मगुप्तः त्याख्या-1. E. सर्वत: 2. D. E. om. Rifà