पृष्ठम्:आर्यभटीयम्.djvu/203

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः २६ ] क्षितिज्या चरज्या च ግዟግ शलाकाखण्डं कोटिः । भूमध्यादुत्तरस्वस्तिकप्रापि दक्षिणोत्तरसूत्रदलं व्यासार्ध कर्णः । एवमिदमर्धायतचतुरश्रं क्षेत्रम् । पूर्वक्षितिजे यत्र ‘तद्दिनस्वाहोरात्रवृत्तसम्पातः तत्र सूत्रं बध्वा उन्मण्डलादुपरि तावत्येवान्तरे बध्नीयात् । तदधोऽर्घ भुजा । उन्मण्डलयुवृतसम्पाते सूत्रं वध्वा विषुवतो दक्षिणेन तावत्येवान्तरे तवैव बध्नीयात् । तदुतरार्ध' ग्रपक्रमञ्ज्या कोटिः । क्षितिजस्वाहोरात्र'सम्पात एव सूत्रं बध्वा विषुवतो दक्षिणेन तावत्येवान्तरे तवैव बध्नीयात् । तदुत्तरार्ध पूर्वापरसूत्रावच्छिन्नं कर्णः । एवमिदमर्धायतचतुरश्रं क्षेत्रं पूर्वस्यान्त*रतयैवावतिष्ठते’ । तेन त्रैराशिकम्-यदि लम्बककोटेः श्रप्रक्षज्या भुजा, क्रान्तिज्याकोटेः का भुजेति । लब्धा द्युवृतगता क्षितिजोन्मण्डलान्तरालज्या । कालव्यवहारस्य विषुवन्मण्डलगतत्वाद् श्रप्रस्यास्तत्परिणामाय इदं त्रैराशिकम्यदि* द्युव्यासार्धवृत्ते' ज्या इयती, त्रिज्यावृत्ते कियतीति । काष्ठेन व्यवहारः इति श्रप्रस्या:* काष्ठं कर्तव्यम् ।। सूत्रकारेणात्र प्रथमत्रैराशिकगणितमेवोक्तम् , द्वितीयत्रैराशिकस्य चापीकरणस्य च न्यायसिद्धत्वात । तत्र उत्तरगोले उन्मण्डलादधःस्थितत्वात् क्षितिजस्य, चरकाष्ठेन" द्विगुणेन निरक्षाह उपचितं स्वदिनप्रमाणम्, श्रपञ्चितं स्वरात्रिप्रमाणम् । दक्षिणगोले विपरीतम् । उन्मण्डलादुपरिस्थितत्वात् क्षितिजस्य, एतयोः काष्ठयोरह्नि रात्रो चानीय तेन सञ्चारात् चरदलव्यपदेशो' भवति । 'अन्यच्च । करणगता ग्रहा निरक्षमध्यार्कोदयिकाः' स्वमध्यमार्कोदयिका-' श्चेष्यन्ते । तयोरन्तरकालश्चरदलप्राणाः । तैस्त्रैराशिकम् –-यद्यहोरात्रासुभिः TTTTTTTT-1. A. om. Ti 2. A. B. C. Hapl, om, तदुत्तरार्ध [to तदुत्तरार्ध] पूर्वापरसूत्र, next line. 3. E. om. RTFqTFT 4. D. Gap for diet; E. gira affair 5. E. तयावतिष्ठते 6. D. om. Vyf 7. A. C. om. Tầ 8. A. om. SfēT 3Fqr: 9. E. तत्काष्ठेन 10. E. व्यपदेशशश्च 11. E. om. the rest of the com. of this verse. 12. D. Eftsfit: rev. to EftrIr: 13. D. fT