पृष्ठम्:आर्यभटीयम्.djvu/208

एतत् पृष्ठम् परिष्कृतम् अस्ति

ዓሂዩ गौलपावे [ योल० शेषस्य ज्यां कृत्वा तस्याः स्वाहोरात्रपरिणामाय त्रैराशिकम्-त्रिज्यावृत्ते इयती, ध्युव्यासार्धवृत्ते कियतीति । लब्धा उन्मण्डलोपारितनध्युव्यासार्धवृत्तखण्डज्या । क्षितिजात् प्रवृत्तया च प्रयोजनमिति सौम्यगोले तत्सजातीया क्षितिज्या योज्यते, याम्ये शोध्यते । लब्ध स्वोदयास्तसूत्रग्रहमध्यान्तरालं कर्णप्रमाणं भवति । सर्वत्र साक्षे देशे निरक्षाधऊध्वयितानि सूत्राण्यक्षवशात् कर्णत्वं प्राप्नुवन्ति । यत्र व्यासार्धं कर्णत्वं प्राप्तं, तत्र लम्बकः कोटिः, ग्रक्षज्या भुजा इति दृष्टम् । तेन त्रैराशिकम्-त्रिज्याकर्णस्य लम्बकः कोटिः, ध्युवृत्तेष्टज्याकर्णस्य का कोटिरिति । लब्धः शङ्कुः । तद्वर्ग' त्रिज्यावर्गाद् विशोध्य शेषस्य मूलं भुजा, महाच्छाया । तया द्वादशशङ्को°श्छायानयनेऽनुपातः°-ग्रस्य गोलस्य शङ्को*रियती छाया, द्वादशकस्य' का इति । लब्धा द्वादशाङ्गुलशङ्कोश्च्छाया । तया विपरीतगणितेन काल ग्रानीयते । छाया-द्वादश-वर्गयोगमूलमिष्टकर्णः । तेनानुपातः–ग्रस्य कर्णस्य द्वादशकः शङ्कुः, त्रिज्याकर्णस्य क इति । लब्धो महाशङ्कुः । शेषं विपरीतकर्मातिस्पष्टम्। अत्र ध्युवृत्तेष्टज्यया शङ्क्वानयन'- मेव सूत्रकारेणोक्तम् । ग्रन्यत्सर्वं न्यायसिद्धत्वादनुक्तमित्यवगन्तव्यम् । इत्यष्टाविंशं सूत्रम्। २८ । [ शङ्क्वग्रम् ]] शङ्क्वग्रानयनमाह - विषुवज्जीवागुणितः। स्वेष्टः शङ्कुः स्वलम्बकेन हृतः । अस्तमयोदयस्त्राद् दक्षिणतः सूर्यशङ्क्वग्रम् ॥ २& ॥ मूलम् – 1. A. B. C. निहतः for गुणितः artisat-1. D. भुजावर्ग for तद्वर्ग (wr.) 2. A. B. C. E.शङ्क 3. D. नयन क्रियते । 4. A. B. C. गोलशङ्कोः: 5. A. B. C. द्वादशस्य 6. B. शङ्कोरानयन 7. E. नयनमार्ययाह