पृष्ठम्:आर्यभटीयम्.djvu/211

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोक: ३१ ] নানান্তৰ্ভূক্ত: ፄኳ❖ शङ्कुः, तदा श्रप्रकग्रतुिल्यशङ्क्वग्रेण कः शङ्कुरिति । लब्धः सममण्डलप्रवेशकाले शङ्कुः । तत्र प्रवेशश्च दक्षिणगोले सम्भवति, विषुवद्वृत्तादुत्तरतःस्थितत्वात् सममण्डलस्य । विषुवद्वृत्तस्थश्चार्कः सममण्डलमुदयास्तमय*काले प्रविशति, स्वस्तिकस्यैकत्वात् । ततः परमुत्तरेणो°त्तरेणोदयं कृत्वा क्षितिजादुपर्युपरि सममण्डलं प्रविश्य दक्षिणतो मध्याहनं कृत्वा पुनः सममण्डलं प्रविश्य उत्तरेणोत्तरेणा*स्तमेति । यदा त्वक्षज्यातुल्योत्तर*क्रान्तिः तदा मध्याह्न एव सममण्डल प्रविशति'। अक्ष ज्याधिकायां स्फुटक्रान्त्यां" सममण्डलप्रवेशाभाव:। सममण्डलप्रवेशशङ्कुश्च गणितस्य दृक्संवादज्ञानार्थमुक्तः । इति एकत्रिशं सूत्रम्। ३१ । [ मध्याहशङ्कु; ] मध्याह्नशङ्कुच्छाययोरानयनमार्ययाऽऽह--- क्षितिजादुन्नतभागा न या ज्या सा परो भवेच्छङ्कुः । मध्यान्नतभागजया छाया शङ्कोस्तु तस्यैव ॥ ३२ ॥ मध्याह्नकाले क्षितिजाद् दृङ्मण्डलगत्या यावद्भिरंशैरुन्नतोऽर्कः तावतां या ज्या सा परः शङ्कुः । तद्दिनजशङ्कूनां दीर्घशङ्कुरित्यर्थः । तस्माच्छङ्कोः श्रन्ये तद्दिनजाः सर्वे हीनप्रमाणाः । तस्मिन् काले सममण्डलमध्याद् दक्षिणत उतरतो वा यावद्धिर्नतोऽर्क:, तावतां या ज्या, सा तस्य परस्य शङ्को। छाया भवति । कथ पुनरुन्नतभागज्ञान नतभागादिति" । बूम:-तथाहि दक्षिणगोले" श्रप्रक्षक्रान्तियोगो' नतम् । सममण्डलाद्दक्षिणेनाक्षभागतुल्येऽन्तरे विषुव sTTT-1. D. E. om RFT 2. A, B. C. om. one T3 TTROT 3. A. B. C. om, one TSVERIUT 4. A. तुल्यः शर; B. तुल्यान्तर; C. तुल्यन्तरः (wr.) 5. A. B. C. Safą Raffời 6. A. B. C. om. FitzGțFFqt 7. E. प्रवेशालाभ: 8. D. afriqit 9. A. C, E. नतभागज्ञानादिति 10. E. दक्षिणभागे 11. E. अक्ष क्राक्तिभागयोगी