पृष्ठम्:आर्यभटीयम्.djvu/215

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोक। ३३ ] वृक्क्षेपच्या ፃዩ'ዩ तत्रेदमर्कभुक्तभोग्यभागादिभिः प्राणानयने त्रैराशिकम्-यदि त्रिशता भागै: तद्राश्युदयप्राणा निरक्षजा साक्षजा वा लभ्यन्ते, अर्कभुक्तैभोंग्यैर्वा कियन्त इति । शेषप्राणैर्भागानयनेऽपीदं त्रैराशिकम्-यद्यनन्तरराश्युदयप्राणैः निरक्षजैः साक्षजैर्वा त्रिशद्भागा लभ्यन्ते, शेषप्राणैः कियन्त इति । श्रनेनोदयलग्नेनार्ककक्ष्योदयज्यानयनं तदग्रानयनवत् कर्तव्यम् । शशिकक्ष्यायां तु उदयलग्नम् इन्दु परिकल्प्य क्रान्तिविक्षेपावानीय तयोयोगवियोगेन स्फुटक्रान्ति कृत्वा ग्रग्रानयनवत् कर्तव्यम् । तदानयनं च पूर्वमेव प्रदर्शितम् । उदयलग्नाच्च राशित्रयं विशोध्य तत्प्रापि दृक्क्षेपमण्डल पूर्वोक्तप्रकारेण वध्नीयात्। एवं स्थिते अर्ककक्ष्यायां दृक्क्षेपानयनं वासनापूर्व प्रदश्र्यते । उदयास्तलग्नप्रापि अपमण्डलपूर्वापरसूत्र भूमध्यमवभिद्य बध्नीयात् । उदयास्ताग्रे च दक्षिणोत्तरायते ‘तत्तत्क्षितिजे वध्नीयात । ग्रपमण्डलपूर्वापर°दिशा तद्दक्षिणोत्तर'दृक्क्षेपक्षितिजमण्डलदक्षिणोत्तरस्वस्तिकप्रापि भूमध्यमवभिद्येव बध्नीयात । ततो मध्यज्याप्रमाणव्यासार्धेन वृत्तं कृत्वा मध्यलग्नप्रापि गोलस्योपरिभागे बध्नीयात् । तन्मध्यज्यामण्डलम् । तस्य दक्षिणोत्तरमण्डलेन यत्सम्पातद्वयं तत्प्रापि दक्षिणोत्तरसूत्रं बध्नीयात् । तदर्ध मध्यलग्नप्रापि मध्यज्या । तस्यैव दृक्क्षेपवृत्तेन यत्सम्पातद्वयं तत्प्रापि च सूत्रं बध्नीयात् । तदर्धं दृक्क्षेपलग्नप्रापि दृक्क्षेपज्या । ततो मध्यलग्ने सूत्रं* बध्वा दृक्क्षेपलग्नात्परतः तावत्येवान्तरे मध्यज्यामण्डले बध्नीयात् । तदर्ध मध्यलग्नस्पृग् भुजा । मध्यज्या कर्णः । दृक्क्षेपज्या कोटिः । एवमिदमर्धायतचतुरश्रं क्षेत्रम् । एतस्यैव क्षेत्रस्य वृद्धिरूपमधःस्थितं दक्षिणोत्तरायतं क्षेत्रम् । तस्य गोलदक्षिणोत्तरव्यासार्ध कर्णः । दक्षिणोत्तरवृत्तक्षितिजवृत्तसम्पातक्षितिजदृक्क्षेपवृत्तसम्पातयोश्चान्तरालज्या क्षितिजमण्डलगतोदयज्यातुल्या भुजा । तदवच्छिन्नं भूमध्यात् प्रभृति दृक्क्षेपसूत्रखण्डं कोटिः । ततस्त्रैराशिकम्-यदि व्यासार्धकर्णस्य उदयज्यातुल्या भुजा, मध्यज्याकर्णस्य का भुजेति’ । मध्यवृत्तस्था भुजा" लभ्यते । तद्वर्ग मध्यज्यावर्गाद् विशोध्य शेषस्य मूलं कोटि: दृक्क्षेपः । एवमिन्द्वादिकक्ष्यास्वपि दृक्क्षेपज्यानयने वासना स्वधिया योज्या' । इति त्रयस्त्रिशं सूत्रम् ।। ३३ ।। व्याख्या-1. A. B. C. भुतभोगादिभिः (wr.) 2. A. Hapl. om. : ằRfToft—[... to årtfrą5-] FTJFITr, two lines below. 3. B. C. frstart: 4. A. B. C. om. पूर्वापर 5. A. om. kiel 6. E. adds feq ret 7. D. E. दक्षिणोत्तरं 8. A. B. C. मध्यलग्नसूत्रं 9. E. का इति 10. A. B. C. मध्यवृत्तभुजा 11. E. om. this sentence.