पृष्ठम्:आर्यभटीयम्.djvu/218

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

VV লীলাবাই flwe वित्रिभलग्नात् पूर्वतोऽर्को तिथिघटिकाभ्यः शोध्यन्ते, यतस्तत्रातिक्रान्तः समसूत्रस्थितिसमयः । अपरतः पुनः पश्चाल्लम्बित'त्वाच्छीघ्रगतेश्चन्द्रस्य स कालो भावी । ग्रतस्तत्र तिथिघटिकासु योजयेत् । एष' लम्बनकालः पर्वान्तजत्वात् स्थूल:' । अत: स्वकालोत्पन्नलम्बनानयनार्थ अविशेषकर्म क्रियते । तत्र पुनर्लग्नादि घटिकान्तं' कृत्वा करणागते पर्वणि संस्कुर्याद् यावदविशेषः । श्रप्रविशिष्टस्थित्यन्तो मध्यग्रहणकालः । एवं लम्बनोत्पत्तिः । ग्रथावनतिः प्रदश्र्यते । यथा श्रप्रपमण्डल*दक्षिणोत्तरस्थयोग्राह्यग्राहकयोर्यद्दक्षिणत उत्तरतो वा लम्बनं तत्कक्ष्यावनतिः? । सा च खमध्यवतिनि दृक्क्षेपलग्ने शून्या । दृक्क्षेपज्या च तत्र नास्ति । ततो यथा यथा दृक्क्षेपलग्नं खमध्यादवनतिः तथा तथा दृक्क्षेपज्यावनत्योरपि वृद्धिर्भवति, यावद्दक्षिणोत्तरक्षितिजम् । तत्रस्थे पुनर्दक्क्षेपलग्ने परमकक्ष्यावनति: दृक्क्षेपज्या च । ग्रतो दृक्क्षेपज्यया अवनतिरानीयते । तत्र त्रैराशिकम्-यदि त्रिज्यातुल्यदृक्क्षेपज्यया भूव्यासार्धतुल्यानि अवनति'योजनानि, इष्टज्यया कियन्तीति । पुनः स्फुटयोजनकर्णेन त्रिज्या लभ्यते, नतियोजनैः किमति । लब्धाः स्वस्वनतिकलाः । तयोः स्वस्ववित्रिभलग्नदिग्वशात् तुल्यदिक्कयोरन्तरम्, भिन्नदिक्कयोर्योगः । योगे चन्द्रवित्रिभलग्नवशाद् दिग्। भवति । तस्य ग्राहकत्वात् तत'स्तत्कालिकचन्द्राद्” विक्षेपमानीय तन्नत्योरेकदिक्कयोयोगम्, भिन्नदिक्कयोरन्तरं' च” कृत्वा स्फुटनतिः"* साध्या ।। इति चतुस्त्रिशं सूत्रम् ।। ३४ ।। व्याख्या-1. A. B. C. ग्रपर: 2. E. पश्चर्धलम्बित 3. D, E. add Te 4. A. C. add here the words : qa trarity frt: 3rty (C. adds further sharift: Tatia), which actually occur three lines below. In C, they are deleted. 5. E. लग्नादिलम्बनघटिकान्त 6. B. adds 2T 7. E. Hapl. om. ZgątfT: [NITT“ ** to #F8Fyrą arfă: #ầq, three lines below. 8. E. अवनति for लम्बन 9. B. D. om. TāRT: 10. D. चन्द्र 11. D. E. विश्लेष for अन्तर 12. A. B. C. om. *** 13. B. D. EgerąfèT: